- उत्तरप्रदेशसर्वकाराय विश्वविद्यालयस्य नवाचारकेन्द्रेण सज्जीक्रियते एप्
- अतीव शीघ्रमेव सार्वजनिकप्रयोगाय प्रारम्भः भविष्यति एप्
- रोगाणाम् मूलभूतसूचनाः परामर्शाः च उपलप्स्यन्ते
झांसी। उत्तरप्रदेशसर्वकारेण सामान्यजनेभ्यः एतादृशम् एप् सज्जीक्रियते, येन तेभ्यः स्वास्थ्यं प्रति अवधानं कर्तुं बहुधा सहायकं सेत्स्यति। बुण्डेलखण्डविश्वविद्यालयस्य नवाचारकेन्द्रम् अस्य विशेषस्य एप् निर्माणकार्ये संलग्नम् अस्ति तथा च अत्यन्तं शीघ्रमेव स्वास्थ्यकुण्डली–इति नाम्ना एतत् एप् प्रारभ्य सामान्यजनानाम् दूरवाणीपर्यन्तं प्राप्स्यते । यदि भवद्भिः कस्यापि प्रकारस्य रोगस्य भयः अस्ति अपि च भवन्तः कस्मिंश्चित् विशिष्टप्रकारेण कार्येण सह सम्बद्धः अस्ति तर्हि एतयोः द्वयोः परिस्थितौ अनेन एप्प-माध्यमेन केषाञ्चन प्रश्नान् उत्तीर्य स्वस्वास्थ्यसम्बद्धाः समीचीनाः सूचनाः परामर्शाः च प्राप्तुं शक्नुवन्ति ।
नवाचारकेन्द्रेण निर्मीयते हेल्थकुण्डलीएप्प–इति
हेल्थकुण्डलीएप्–इत्यत्र एतावता पञ्चदशाधिकरोगाणां विषये सूचनाः योजिताः सन्ति, परन्तु ये जनाः एतं सज्जीकृतवन्तः तेषाम् अनुमानम् अस्ति यत् ते अधुना अस्मिन् एप्पमध्ये रोगाणां सङ्ख्यां वर्धयितुं प्रयतन्ते । एतत् एप्प–इति मुख्यतया केषाञ्चन प्रश्नानाम् उत्तराणाम् आधारेण कस्यचित् रोगस्य उपस्थितेः पूर्वानुमानं करिष्यति अपि च तस्य चिकित्सायाः उपायान् सूचयिष्यति। एतेन सह स्वास्थ्यविभागसम्बद्धा सूचना अपि च स्वास्थ्यक्षेत्रसम्बद्धा प्रमुखसंस्थाः, सहायतासङ्ख्या च अस्मिन् एप्प-मध्ये उपलभ्यन्ते। बुण्डेलखण्डविश्वविद्यालयस्य नवाचारकेन्द्रस्य प्रभारी डॉ. लवकुशद्विवेदी अपि च तस्य दलम् अस्य विशेषस्य एप्प–इत्यस्य सज्जीकरणे संलग्नः अस्ति ।
परीक्षणचरणे अस्ति एप्प–इति
बुण्डेलखण्डविश्वविद्यालयस्य कुलपतिः प्राध्यापकस्य मुकेशपाण्डेयस्य अनुसारं विश्वविद्यालयस्य शोधकर्तारः सम्प्रति अस्मिन् विशेषे एप्प–इत्यस्मिन् कार्ये कार्यं कुर्वन्ति । अनेन एप्प-माध्यमेन कस्मिंश्चित् व्यवसाये निरताः श्रमिकाः अतीव सरलतया अस्मिन् स्मार्ट-एप्प-मध्ये केषाञ्चन् प्रश्नानाम् उत्तरं दत्त्वा इति ज्ञातुं शक्नुवन्ति यत् तेषु कस्य रोगस्य लक्षणानि सन्ति । कस्यापि रोगस्य शङ्कायां सति प्रश्नानाम् उत्तरं दत्त्वा भवन्तः स्वशङ्कान् निवारयितुं शक्ष्यन्ति । कस्यापि रोगस्य लक्षणे सति सम्बद्धव्यक्तेः तस्य चिकित्सायाः कृते कीदृशानि पदानि ग्रहीतव्यानि, एषः परामर्श एप्पमाध्यमेन अपि उपलभ्यते । अधुना अस्मिन् एप्प–इत्यस्मिन् परीक्षणपदे कार्यं प्रचलति ।