
– बरेलीनगरे निर्मितं परागपयोहिमं सम्पूर्णराज्ये भविष्यति वितरितम्
– योगिसर्वकारस्य मन्त्रिणा धर्मपालसिंहेन परागपयोहिमसंयंत्रस्य कृतं पर्यवेक्षणम्
– कृषकाणां वृत्तिधनं द्विगुणितं कर्तुम् आरब्धानां योजनानां विषये प्रदत्ता सूचना
– शकटात् सम्पूर्णराज्ये परागदुग्धशालासु प्राप्स्यते पयोहिमम्
बरेली। उद्योगान् आजीविकां च प्रवर्धयितुं मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य उपक्रमस्य प्रभावः । अस्य प्रभावः अयम् अस्ति यत् जनपदे परागसंस्थायाः प्रथमं पयोहिमसंयंत्रं स्थापितम् । करगैना बदौनमार्गे अष्टशताधिककोटिरूप्यकाणां व्ययेन निर्मितः हरितक्षेत्रसंयंत्रं आरब्धं, यत्र प्रतिदिनं दशसहस्रलीटरमितं पयोहिमं निर्मीयते । यस्य आपूर्तिः सम्पूर्णे राज्ये भविष्यति । अधुना सम्पूर्णः उत्तरप्रदेशः परागसंस्थायाः पयोहिमं खादिष्यति ।
योगिसर्वकारस्य पशुपालनविकासमन्त्रिणा धर्मपालसिंहेन शुक्रवासरे पयोहिमसंयंत्रस्य परीक्षणं कृतम् । तेनोक्तं यत् ‘ परागपयोहिमस्य निर्माणेन एकत्र कृषकाणां वृत्तिधनं द्विगुणितं भविष्यति । अपरत्र जनाः वृत्तिः प्राप्स्यन्ते । अद्यत्वे प्रदेशे परागपयोहिमं शकटात् परागसंस्थायाः सर्वाभ्यः दुग्धशालाभ्यः परागसंस्थायाः आपणेभ्यः पयोहिमम् अपि च अन्येषाम् उत्पादानाम् विक्रयणस्य व्यवस्था क्रियते ।
अधुना राज्यस्य धेनवः केवलं वत्साः एव प्रसविष्यन्ते
मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य निर्देशानुसारं प्रथमवारं नोएडानगरे दुग्धशालाविश्वशिखरसम्मेलनस्य आयोजनं कृतम् । योगिसरकारस्य मन्त्रिणा धर्मपालसिंहेन उक्तं यत् गोमहिषयोः दुग्धस्य उत्पादनं वर्धयितुं दिशि क्रान्तिकारीनिर्णयः स्वीकृतः अस्ति। एतन्निमित्तं सेक्सय–सोर्टेड–सीमन–योजना कार्यान्विता अस्ति । यस्मिन् गोषु महिषेषु च कृत्रिमप्रजननद्वारा एतादृशं बीजं स्थाप्यते, यस्मात् केवलं स्त्रीबालाः एव जन्मिताः भविष्यन्ति । इत्युक्ते गोवत्सस्य महिषस्य वत्सस्य च प्रत्याभूतिः भवति । अनेन पशुपालकानां वृत्तिधनं वर्धिष्यते।
शतदिवसेषु पञ्चसप्ततिलक्षमितानां पशूनां भविष्यति कृत्रिमं गर्भाधानम्
दुग्धस्य वृद्ध्यर्थं गोषु महिषीषु च कृत्रिमगर्भधानस्य व्यवस्था कृता अस्ति । शतदिवसेषु पञ्चसप्ततिलक्षमितानां गोमहिषीणां गर्भधानं कारयिष्यते । अस्मिन् धेनुभ्यः वीर्यटीका प्रयोक्ष्यते येन वत्साः जनिष्यन्ते । महिषीषु मुर्रामहिषीभ्यः वीर्यटीका प्रदास्यते । मुर्रामहिषी एकस्मिन् दिवसे विंशतिलीटरपर्यन्तं दुग्धं ददाति । अनेन दुग्धस्य वृद्धिः भविष्यति । एतस्य प्रत्यक्षं प्रभावः कृषकाणां वृत्तिधने भविष्यति ।
दुग्धशालाभ्यः सर्वकारीपरियोजनानुदाने व्याजे च अवहारः
योगिसर्वकारेण दुग्धपरियोजनाम् उद्दिश्य अधिकः अवहारः दीयते । पशुपालनं प्रवर्धयितुं दुग्धशालाः उद्घाटयेभ्यः दशप्रतिशतम् अनुदानं दीयते । एतदतिरिक्तं वित्तकोषस्य वित्तविषये पञ्चप्रतिशतव्याजे ऋणम् उपलभ्यते । गोमहिषाणाम् अतिरिक्तं अज-कुक्कुट-पालने अपि अनुदानस्य व्यवस्था कृता । एतेन कृषकाः पशुपालनं कृत्वा स्वस्य वृत्तिधनं वर्धयितुं शक्नुवन्ति ।