
– एकचत्वारिंशततमे भारतीय–अन्तर्राष्ट्रीयव्यापारमेलापके २०२२इत्यस्मिन् एकजनपदः एकोत्पादस्य विपण्यां बहूनां जनानां भवति सम्मर्धः
– गोरखपुरस्य टेराकोटा, आगराजनपदस्य सङ्गमरमरस्य योजनं, लखनऊजनपदस्य चिक्कनकारीकार्यं विपण्याम् अधिकतमः भवति सम्मर्धः
नई दिल्ली/लखनऊ । उत्तरप्रदेशस्य योगिसर्वकारः एकजनपदः एकोत्पादः इत्यनया योजनया जनपदानां उत्पादेभ्यः वैश्विकं मान्यतां दापयितुं अभियानस्तरे कार्यं कुर्वन् अस्ति। अस्मिन् क्रमे राष्ट्रियराजधान्याः प्रगतिमैदान इति स्थाने नवम्बरमासस्य चतुर्दशदिनाङ्कतः सप्तविंशतिदिनाङ्कपर्यन्तं प्रचलिते एकचत्वारिंशततमे भारतीय–अन्तर्राष्ट्रीय-व्यापारमेलापके २०२२तमे वर्षे उत्तरप्रदेशस्य एकजनपदः एकोत्पादः इत्यस्याः योजनायाः प्रमुखोत्पादानाम् विपणीषु जनानां सम्मर्धः दर्शनयोग्यः एव भवति । वाराणसीजनपदस्य पाटलमीनाकारीकार्यतः आरभ्य गोरखपुरस्य टेराकोटा, आगराजनपदस्य सङ्गमरमरयोजनं, लखनऊजनपदस्य चिक्कनकारीकार्यं, कन्नौजजनपदस्य सुगन्धार्कः, कानपुरजनपदस्य चर्मोत्पादाः पर्यन्तम् उत्तरप्रदेशदीर्घामध्ये प्रदर्शिताः, ये अत्र आगन्तुकान् मध्ये आकर्षणस्य केन्द्रम् अभवन् । अवधातव्यम् अस्ति यत् राज्यस्य मुख्यसचिवेन डी.एस.मिश्रेण उत्तरप्रदेशदीर्घायाः उद्घाटनं कृतम्, यद्यपि मुख्यमन्त्री योगी आदित्यनाथः अपि मेलापके आगत्य उत्तरप्रदेशस्य उत्पादानाम् प्रशंसाम् कृतवान् ।
मेलापके उत्तरप्रदेशस्य बृहती सहभागिता
अन्तर्राष्ट्रीयव्यापारमेलापकं प्रतिवर्षं नवम्बरमासस्य चतुर्दशदिनाङ्कात् सप्तविंशतिदिनाङ्कपर्यन्तं आयोजितं भवति । अनेन देशस्य आर्थिक–औद्योगिकप्रगतिः प्रदर्शयितुं महत्त्वपूर्णः अवसरः प्राप्यते । अस्य मेलापकस्य आयोजनेन देशस्य प्रत्येकं राज्यै भारतसर्वकारस्य सम्बन्धितविभागैः च स्वोत्तमानाम् उत्पादानाम् प्रदर्शनं क्रियते । उत्तरप्रदेशः अपि गतवर्षानुसारं केन्द्रितराज्यरूपेण मेलापके प्रतिभागं करोति । राज्येन अस्मिन् मेलापके सूक्ष्मलघूमध्यमोद्योगानां, निर्यातकानां, हस्तशिल्पीनां, एकजनपदः एकोत्पादस्य उद्यमिनां च उत्तमानां उत्पादानां प्रदर्शनं क्रियते । यूपीसीडा–नोएडा–ग्रेटरनोएडा–यमुनाएक्स्प्रेसमार्ग प्राधिकरणद्वारा अपि राज्ये क्रियमाणानां उत्तमानाम् औद्योगिक–अवस्थापनाविभागसम्बद्धानां कार्याणाम् अपि प्रदर्शनम् अत्र क्रियते । एतदतिरिच्यं भारतीयपैकेजिङ्गसंस्थानम् अपि एकजनपदः एकोत्पादानाम् पैकेजिङ्गसम्बन्धे प्रदर्शनं क्रियते ।
आन्तर्जालद्वारा अपि क्रेतुं शक्यन्ते उत्पादानि
ओडीओपी-अन्तर्गतं उत्तरप्रदेशस्य यानि उत्पादानि उत्तरप्रदेशदीर्घामध्ये प्रदर्श्यन्ते तेषु वाराणसीजनपदस्य पाटलमीनाकारीकार्यं, गोरखपुरस्य टेराकोटा, आगराजनपदस्य सङ्गमरमरयोजनं, लखनऊजनपदस्य चिक्कनकारीकार्यं, कन्नौजजनपदस्य सुगन्धार्कः, कानपुरजनपदस्य चर्मोत्पादानि इत्यादयः सन्ति । एतेन सहैव मैनपुरीजनपदस्य तारकाशीकार्यं लखनऊजनपदस्य चिक्कनकारीकार्यं, वराणसीजनपदस्य पाटलमीनाकारीकार्यं आगराजनपदस्य सङ्गमरमरयोजनकार्यं चेत्यादीनां सजीवप्रदर्शनं हस्तशिल्पिभिः क्रियते । एतानि उत्पादनानि द्रष्टुं क्रेतुं च जनानां विशालः सम्मर्धः आगच्छति । न केवलं देशस्य अपितु विश्वस्य सर्वे अतिथयः अपि एतेषु उत्पादेषु स्वरुचिं प्रदर्शितवन्तः । एतानि उत्पादनानि व्यक्तिगतरूपेण आभासीरूपेण च क्रेतुं शक्यन्ते । एतदर्थं सामाजिकमाध्यमेषु अपि प्रचारः क्रियते। एकेन क्यूआरकोड–इत्यस्य स्कैनिद्वारा उत्तगरप्रदेशदीर्घायाः सजीवदर्शनं भवितुं शक्नोति अपि च अत्र भवन्तः उत्पादानाम् आनलाईनकरणम् अपि कर्तुं शक्नुवन्ति।
स्थानीयतः वैश्विकपर्यन्तं विषयः
अस्मिन् वर्षे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दृष्ट्यानुसारं मेलापकस्य विषयः “वोकल फार लोकल, लोकल टू ग्लोबल” इति अवधारणायां स्थापितः अस्ति । अनेन आधारेण राज्यस्य पारम्परिकपदार्थैः सह निर्यातकानाम् उत्पादानाम् अपि प्रदर्शनं क्रियते । एतत् ज्ञायते यत् एतेन अवसरेन राज्यसर्वकारः वैश्विकस्तरे स्वस्य प्रमुखोत्पादानाम् विपणनं कर्तुं प्रयतते । सम्प्रति एव प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि बालीनगरे जी–20 इति शिखरसम्मेलने सदस्यदेशानां राष्ट्रप्रमुखेभ्यः राज्यस्य उत्पादानि उपहाररूपेण दत्तानि आसन् । एतानि सर्वाणि कार्याणि प्रदेशस्य एकखरब-डॉलर-अर्थव्यवस्थायाः लक्ष्यस्य साकारीकरणे सहायकाः भविष्यन्ति ।