
– यूपीजीआईएस- 23 इत्यस्य जवनिकोत्थापनकार्यक्रमे प्राप्ताः विश्वस्य विभिन्नदेशानां प्रतिनिधयः
– जापान–सिङ्गापुर–इजरायल चेत्यादीभिः देशैः उत्तरप्रदेशेन सह दृढसहभागितां प्रति दर्शिता प्रतिबद्धता
लखनऊ/नई दिल्ली । उत्तरप्रदेशवैश्विकनिवेशकशिखरसम्मेलनस्य (UPGIS-23) विषये विश्वस्य सर्वेभ्यः प्रमुखेभ्यः देशेभ्यः सकारात्मकप्रतिक्रियाः प्राप्यन्ते । मङ्गलवासरे राष्ट्रियराजधान्याम् आयोजिते यूपीजीआईएस-23 इत्यस्य जवनिकोत्थापनकार्यक्रमे भागं ग्रहीतुं आगताः जापान-इजरायल-सिङ्गापुर-देशानां प्रतिनिधिभिः उत्तरप्रदेशं निवेशार्थं उत्तमं स्थानं इति वर्णितम् । साकमेव उत्तरप्रदेशेन सह दृढव्यापारसहभागितां प्रति अपि स्वप्रतिबद्धतां प्रकटितवन्तः ।
भारते सिङ्गापुरस्य उच्चायुक्तः साइमनवोङ्गः उक्तवान् – “मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य अयं जवनिकोत्थापनकार्यक्रमः उत्तरप्रदेशस्य कृते एक-खरब-डॉलर-अर्थव्यवस्थायाः लक्ष्यं प्राप्तुं महान् आरम्भः अस्ति । सिङ्गापुरं भारतं च पूर्वमेव सहभागिनौ देशौ स्तः, उत्तरप्रदेशे स्वस्नेहम् उद्दिश्य वयं बहु विश्वसिमः” ।
भारते इजरायलस्य राजदूतः नाओरगिलोनः उक्तवान् – “उत्तरप्रदेशसर्वकारेण वयं सह बुण्देलखण्डे जलविषये पूर्वमेव परियोजनासु सहभागिनः स्मः। अधुना आधारभूतसंरचना– सूचनाप्रौद्योगिकी–नवाचारं–रक्षा–सुरक्षा चेत्यादिषु विविधक्षेत्रेषु उत्तरप्रदेशसर्वकारेण सह एकस्यै दृढसहभागितायै वयं उत्साहिनः स्मः।
मुख्यमन्त्रिणः शिक्षासल्लाहकारः प्राध्यापकः डी.पी.सिंहः उक्तवान् यत् उत्तरप्रदेशेन विभिन्नदेशेषु उच्चैः उड्डयनं कृतं यस्मिन् शिक्षाकौशलविकासौ सम्मिलितौ स्तः । मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य एक–खरब–डॉलर–अर्थव्यवस्थायाः लक्ष्यं पूर्णं कर्तुं शिक्षा कौशलविकासः च महत्त्वपूर्णां भूमिकां निर्वहनं करिष्यति ।
जापानदेशस्य आर्थिकविभागस्य परामर्शदात्री त्सुचियाताकेहिरो उक्तवती – “भारतदेशः जापानस्य कृते अतीव महत्त्वपूर्णा सहभागिता अस्ति, सम्प्रति उत्तरप्रदेशे त्रिशताः विभिन्नाः संस्थाः सन्ति, यस्मिन् विनिर्माणम् इत्यादि सम्मिलितम् अस्ति । तार्किकदृष्ट्या उत्तरप्रदेशः उत्तमस्थानः अस्ति । जापानसर्वकारः राज्यस्य विकासे प्रत्येकं आर्थिकसहकार्यस्य समर्थनं करोति ।