
दिग्गज अभिनेता विक्रम गोखले स्वर्गं गतः। सः १५ दिवसान् यावत् पुणेनगरस्य दीनानाथमङ्गेशकर चिकित्सालये प्रवेशितः आसीत् । अभिनेतुः स्थितिः अतीव गम्भीरः इति वैद्याः अवदन् । अपि च सः २४ घण्टापर्यन्तं निरीक्षणे एव स्थापितः ।
Vikram Gokhale Sir brought a lot of gravitas to the roles he essayed. He always stood tall. I had the good fortune of sharing screen time with him. His passing away is very sad. I pray his soul finds eternal peace. RIP Vikram Sir.
Condolences to his family 🙏🕉Shanti pic.twitter.com/8oAWP2zBjm— Ajay Devgn (@ajaydevgn) November 23, 2022
समाचारानुसारं विक्रमस्य पुणे-नगरस्य पण्डित-दीनानाथ-मङ्गेशकर-अस्पताले चिकित्सा क्रियते स्म । विक्रमः गम्भीर यकृत्रोगेण पीडितः आसीत् इति कथ्यते । अपि च तस्य शरीरस्य अन्ये अङ्गाः सम्यक् कार्यं न कुर्वन्ति स्म । एतां वार्ताम् श्रुत्वा प्रशंसकाः स्तब्धाः भवन्ति।
Veteran actor #VikramGokhale passes away at 82
Read here- https://t.co/lExam4CUIK pic.twitter.com/q3vLNfJPpo
— Zee News English (@ZeeNewsEnglish) November 23, 2022
उल्लेखनीयम् यत् ८२ वर्षीयः विक्रमगोखले हिन्दी-मराठी-चलच्चित्रयोः दिग्गजः अभिनेता आसीत् । सः अनेकानि सुपरहिट् चलच्चित्राणि दत्तवान् । १९७१ तमे वर्षे २६ वर्षीयः अयं अभिनेता अभिनयस्य आरम्भं कृतवान् । अमिताभबच्चन इत्यनेन सह ‘परवाना’ इति चलच्चित्रे सः कार्यं कृतवान् । ‘हम दिल दे चुके सनम्’ इति चलच्चित्रे ऐश्वर्यारायबच्चनस्य पितुः भूमिकां अपि निर्वहति स्म । एतदतिरिक्तं ‘भूल भुलैया’, ‘दिलसे’, ‘दे दाना दान’, ‘हिचकी’, ‘निकम्मा’, अक्षयकुमारस्य ‘मिशन मङ्गल’ इत्यादिषु हिट् चलच्चित्रेषु कार्यं कृतवान् ।
#VikramGokhale's wife Vrushali reacts: "His death news is untrue; he is not responding to touch and doctors will decide tomorrow"- Exclusivehttps://t.co/gUzpHtPFiD
— The Times Of India (@timesofindia) November 24, 2022