
गोवा, कुलदीपमैन्दोला । विविधशास्त्रमहापरीक्षायां उत्तीर्णवतां शास्त्रपण्डितानाम् अभिनंदनकार्यक्रमं श्रीविद्यापाठशालारीवणगोवायां संपन्नम् अभवत् । व्यासपीठे १२ युवाविद्वद्भिस्सह एवं २ गुरूणाम् उपस्थितिना सह सर्वेषां वंदनीयगुरुवर्य: डॉ. देवदत्तपाटील: सुशोभायमानोभवत् । ज्ञातेतिहासे प्रथमवारंं महापरीक्षाया: ज्ञानगंगायां २ विदुषीणामपि कीर्तिमानं स्थापितमभवत् ।
अभिनंदनकार्यक्रमे भाग्यनगरे हैदराबादत: विद्वान् श्रीपादसुब्रमण्यमवर्य: अध्यक्षस्वरूपेण उपस्थित: सन् । कार्यक्रमस्य शोभां वर्धितवान् । केन्द्रीयसंस्कृतविश्वविद्यालयस्य यशस्वी कुलपति: श्रीनिवासवरखेडीवर्य: शुभाशीर्वादं प्रदत्तवान् । तै: प्रोक्तं यत् अत्रत्ययुवाविद्वांसं दृष्ट्वा युवा वसिष्ठवामदेवयो: गुरुकुलं स्मरणमायाति । अधुना खंडितभारतीयज्ञानपरंपरा जागृता भवति । इत्थं भारतीयसंस्थानाम् आचार्यकुलमाध्यमेनैव भारतं विश्वगुरुं भवितु स्वप्नसाकारं प्राप्स्यते ।