
दक्षिणकश्मीरस्य अनन्तनागमण्डले जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री तथा पीपुल्स डेमोक्रेटिक पार्टी अध्यक्षा महबूबा मुफ्ती तथा सप्त पूर्वविधायकाः स्वसरकारीवासं रिक्तं कर्तुं कथिताः। रविवासरे अधिकारिणः एतां सूचनां दत्तवन्तः।
उल्लेखनीयम् यत् ततः पूर्वं १५ अक्टोबर् दिनाङ्के कश्मीरस्य एस्टेट्स् विभागेन पीडीपी अध्यक्षाय श्रीनगरस्य गुपकररोड् इत्यत्र आधिकारिकनिवासस्थानं रिक्तं कर्तुं सूचना प्रदत्ता आसीत्। शनिवासरे कार्यकारिणीदण्डाधिकारी (प्रथमश्रेणी) महबूबा मुफ्तीं पूर्वविधायकत्रयं च अनन्तनाग उपायुक्तस्य निर्देशानुसारं सर्वकारीयवासस्थानं रिक्तं कर्तुं सूचनां दत्तवान्।
तेभ्यः क्रमशः १, ४, ६, ७ च क्वार्टर् नम्बरं 24 घण्टानां अन्तः रिक्तं कर्तुं कथितम् अस्ति । अन्येषु येषु सर्वकारीयवासस्थानानि रिक्तं कर्तुं कथितानि सन्ति, तेषु पूर्वविधायकः अल्ताफशाहः, पूर्वविधायकः बशीरशाहः, पूर्वविधायकः चौधरीनिजामुद्दीनः, पूर्वविधायकः अब्दुलकबीरपाथानः, निगमस्य शेखमोहिउद्दीनः च सन्ति।
अधिकारिणां मते एते सर्वकारीयगृहाणि हाउसिंग कालोनी खनाबल इत्यत्र स्थितानि सन्ति, यदि ते निर्धारितसमये रिक्ताः न भवन्ति तर्हि विधि कार्रवाईयाः चेतावनी दत्ता अस्ति।