
केन्द्रशासितक्षेत्रस्य लद्दाखस्य पार्षदाः अधुना प्रतिमासं ६०,००० रुप्यकाणां भत्तां प्राप्नुयुः, येन तेषां कुलवेतनं प्रतिमासं १.२० लक्षरूप्यकाणि भविष्यति। शनिवासरे अधिकारिणः एतां सूचनां दत्तवन्तः। अधिसूचनायां उक्तं यत्, लद्दाखस्वायत्तपर्वतविकासपरिषदः लेह-कारगिलयोः पार्षदानां कृते ४०,००० रूप्यकाणां मासिकं निर्वाचनक्षेत्रभत्तां, १०,००० रूप्यकाणां कार्यालय-दूरभाषभत्ता, १०,००० रूप्यकाणां चिकित्साभत्ता च प्राप्स्यति।
ज्ञातव्यं यत् पार्षदानां मानदेयवृद्धेः विषये डॉ. पवनकोतवालस्य अध्यक्षतायां समितिः गठितवती। समितिस्य अनुशंसायाः अनन्तरं प्रस्तावः अनुमोदितः । लद्दाख सामान्यप्रशासनविभागस्य आयुक्तसचिवः अजीतकुमारसाहूः लद्दाख स्वायत्तपहाडीविकासपरिषद् अधिनियम १९९७ इत्यस्य धारा ३५ अन्तर्गतं आदेशं जारीकृतवान्।
सामान्य प्रशासन विभाग (जीएडी) सचिव: अजीतकुमारसाहुः अवदत् यत् केन्द्रीयक्षेत्रप्रशासनेन गृहीतः एषः निर्णयः तृणस्तरस्य लोकतन्त्रस्य सुदृढीकरणाय अस्ति। अनेन लद्दाख-कारगिलयोः सर्वे पार्षदाः लाभान्विताः भविष्यन्ति।