
उत्तराखण्ड, कुलदीपमैन्दोला। राज्यशैक्षिकम् एवम् प्रशिक्षणपरिषद् उत्तराखण्ड इत्यनेन 21त: 25 नवम्बर 2022 दिनांकपर्यन्तं देहरादूने ई कण्टेण्ट इति कार्यशालाया: आयोजनं कृतम् । कार्यशालायां विभिन्नजनपदेभ्य: आगता: शिक्षका: दीक्षापोर्टलनिमित्तं वीडियो- सामग्रीं निर्मितवन्त: ।
समारोपकार्यक्रमे संस्थानस्य अपरनिदेशक (प्रभारी) श्रीमती आशारानी पैन्यूली महोदया सर्वेषां मार्गदर्शनं कृतवती । प्रशिक्षणदातृषु श्री सुधीरनौटियाल: श्री वर्मामहोदय: श्री शिवम: श्री शुभम: आचार्य: कृष्णकोटनाला विनोदडोबरियाल: देशबन्धुभट्ट: चादय: आसन् । संचालनं श्रीमती पुष्पा असवालमहोदया धन्यवादज्ञापनं च गिरीश: तिवारी कृतवन्तौ ।