
पाकिस्तानस्य नूतनसेनाप्रमुखस्य नियुक्तेः अनन्तरं आईएसआई-सङ्घस्य पूर्वप्रमुखः लेफ्टिनेंट जनरल् फैज हामिदः शीघ्रमेव निवृत्तः भवितुम् निश्चयं कृतवान् अस्ति। आईएसआईसङ्घस्य पूर्वप्रमुखः पाकिस्तानस्य शीर्षसैन्यपदाधिकारिषु अन्यतमः च लेफ्टिनेंट जनरल् फैज हामिदः मंगलवासरे एतां घोषणां कृतवान्। पाकिस्ताने मीडियासञ्चारमाध्यमानां समाचारानुसारं सः सेनाप्रमुखत्वेन नियुक्तः न भूत्वा शीघ्रं निवृत्तिम् अङ्गीकृतवान् ।
आईएसआईसङ्घस्य पूर्वप्रमुखः लेफ्टिनेंट जनरल फैज हामिदः सेनाप्रमुखपदार्थं जनरल् मुख्यालयेन (जीएचक्यू)चयनितानां षट् वरिष्ठतमानां जनरलानां मध्ये एकः आसीत् गतसप्ताहे एषा सूची प्रधानमन्त्री शेहबाजशरीफस्य कृते अनुमोदनार्थं प्रेषिता आसीत्।
जनरल् हामिदः जनरल् मुख्यालयेन (जीएचक्यू) सेनाप्रमुखपदार्थं चयनितेषु षट् वरिष्ठतमसेनापतिषु अन्यतमः आसीत् । गतसप्ताहे एषा सूची प्रधानमन्त्री शेहबाजशरीफस्य कृते अनुमोदनार्थं प्रेषिता आसीत्।
पाकिस्तानस्य ए न्यूज टीवीपत्रिकायाः समाचारः अस्ति यत् बहावलपुरकोर्सेनापतिः लेफ्टिनेंट जनरल् हामिदः देशस्य सेनाप्रमुखत्वेन चयनं न कृत्वा शीघ्रं सेवानिवृत्तिम् अङ्गीकृतवान्।
आईएसआईसङ्घस्य पूर्वप्रमुखः जनरल् असीम मुनीरः गुरुवासरे पाकिस्तानसर्वकारेण सेनाप्रमुखत्वेन नियुक्तः। एतेन सह उच्चस्तरीयस्य संवेदनशीलस्य च पदस्य विषये प्रचलति अनुमानं अधुना समाप्तम् अस्ति।
जनरल् हामिदः स्वस्य त्यागपत्रं उच्चकमाण्डाय प्रेषितवान् अस्ति। तस्मिन् एव काले मंगलवासरे सेनाप्रमुखस्यजनरल् मुनीरस्य प्रभारं स्वीकृत्य नूतनपदस्थापनात् पूर्वं अधिकारिणः तस्य त्यागपत्रं स्वीकृतवन्तः एव।