-राज्ये स्थापितेषु उद्योगेषु राज्यस्य युवभ्यः प्राप्तुं शक्ष्यते बृहत्प्रमाणेन वृत्तिः
-नूतननिवेशः महिलानां युवानां च कृते आनेष्यते सुनिश्चिता वृत्तिः
मुख्यमन्त्रिणा योगिना आदित्यनाथेन राज्ये स्थापितेषु उद्योगेषु उत्तरप्रदेशस्य युवभ्यः सुनिश्चिता वृत्तिः उपलब्धुं मानकानि निर्धारितानि । सर्वकारेण उत्तरप्रदेशे औद्योगिकक्रियाकलापानाम् वर्धितुं अपि च तस्मिन् राज्यस्य युवभ्यः सुनिश्चितावृत्तिम् उद्दिश्य उद्योगः चतुर्षु वर्गेषु विभक्तः अस्ति ।
तदनुसारं उद्योगेभ्यः विविधमदेषु अनुदानस्य लाभः प्रदास्यते अपि च एतेषां अनुसारम् उद्योगेन उत्तरप्रदेशस्य युवभ्यः वृत्तिः उपलप्स्यते । एतदर्थं मुख्यमन्त्रिणा योगिना अधिकारिभ्यः निर्देशाः अपि प्रदत्ताः यत् ते समये–समये उद्योगं गत्वा पश्यन्तु यत् राज्यस्य युवभ्यः निर्धारितमानकेन वृत्तिः प्राप्यते वा न वा ।
अल्ट्रा–मेगा–उद्योगे प्रतिवर्षं पञ्चादशशताधिकेभ्यः युवभ्यः प्रदातव्या एव भविष्यति वृत्तिः
राज्ये निवेशस्य रोजगारस्य च नूतनावसरान् प्रदातुं योगीसर्वकारेण सम्प्रति एव नूतना औद्योगिकनिवेश-रोजगार-प्रवर्धन-नीतिः 2022–इति आनायिता येन राज्ये उद्योगः बृहत्-परिमाणेन आकृष्टः भवितुम् अर्हति तथा च राज्यस्य युवानः अत्र वृत्तयार्थम् आनेतुं शक्यन्ते । तत्र भ्रमितुं न प्रयोजनम्। नूतननीत्यान्तर्गतं राज्ये निवेशं वर्धितुम् उद्योगः चतुर्धा विभक्तः अस्ति । चतुर्णां वर्गाणाम् आधारेण निवेशकानां कृते अनुदानस्य लाभं दातुं सह तेषां संस्थायाम् उत्तरप्रदेशस्य युवानां कृते रोजगारं सुनिश्चितं कर्तव्यं भविष्यति ।
मुख्यमन्त्री योगी आदित्यनाथः उद्योगं बृहत्, विस्तरम्, अतिविस्तरं, अल्ट्रामेगा–इति विभक्तवान् अस्ति । अस्य आधारेण रोजगारः अपि सुनिश्चितः अभवत् । अस्य अन्तर्गतं बृहत् उद्योगेन प्रतिवर्षम् उत्तरप्रदेशस्य न्यूनातिन्यूनं त्रिशतेभ्यः युवभ्यः स्वसंस्थायां रोजगारं दातव्यं भविष्यति । अपरपक्षे विस्तरोद्योगेन प्रतिवर्षं न्यूनातिन्यूनं षड्शतेभ्यः युवभ्यः स्वसंस्थायां रोजगारस्य अवसराः प्रदातव्याः भविष्यन्ति, अल्ट्रामेगा–इत्यनेन उद्योगेन प्रतिवर्षं न्यूनातिन्यूनं पञ्चादशशतेभ्यः युवभ्यः रोजगारस्य अवसराः प्रदातव्याः भविष्यन्ति । तथैव अल्ट्रामेगा–इत्यनेन उद्योगेन प्रतिवर्षं पञ्चादशशततः अधिकानां युवानां कृते रोजगारः दातव्यः भविष्यति ।
एतेषां मानकानां पूर्तये बूस्टरसहायता उपलब्धा भविष्यति
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् यदि कश्चन उद्योगः न्यूनतमरोजगारयुक्तानां पञ्चसप्ततिप्रतिशतं महिलानां कृते रोजगारं प्रददाति तर्हि उद्योगस्य विभिन्नवर्गानुसारं अतिरिक्तानुदानं विभिन्नमदेषु दातव्यम् । अस्यान्तर्गतं न्यूनतमं रोजगारं सुनिश्चित्य पञ्चसप्ततिप्रतिशतं महिलानां रोजगारं प्रदातुं विस्तरोद्योगाय द्विप्रतिशतं अतिरिक्तानुदानं दीयते ।
न्यूनतमरोजगारस्य द्विगुणाधिकं पञ्चसप्ततिप्रतिशतं महिलां नियोजितानां अतिविस्तराणाम् उद्योगानां कृते चतुर्प्रतिशतं अतिरिक्तानुदानं दीयते, न्यूनतमरोजगारस्य त्रिगुणाधिकं पञ्चसप्ततिप्रतिशतं महिलां नियोजितानां अल्ट्रा–मेगा–उद्योगानां कृते चतुर्प्रतिशतं च दीयते।
न सह्यष्यते शिथिलता – मुख्यमन्त्री
नूतननीतिं कार्यान्वितं कृत्वा मुख्यमन्त्री योगी आदित्यनाथः उच्चाधिकारिभ्यः निर्देशं दत्तवान् यत् ते निवेशकानां कृते अनुदानस्य लाभं यथासमये ददतु येन राज्ये शीघ्रतमे उद्योगाः बृहत्परिमाणे स्थापिताः भवेयुः । सर्वकारीययोजनानां लाभं प्राप्तुं तेषां समक्षं कस्यापि प्रकारस्य समस्या न भवेत् इति अपि विशेषतया सावधानता ग्रहीतव्या ।
मुख्यमन्त्रिणा योगिना अधिकारिभ्यः निर्देशः दत्तः यत् उद्योगस्य स्थापनायै निवेशकानां कृते अनुकूलं वातावरणमपि उपलभ्यते, अस्मिन् कापि शिथिलता न सह्यष्यते, शिथिलताविरुद्धं कठोरप्रक्रिया भविष्यति अपि च उद्योगे नियतमानकानुसारं राज्यस्य युवानां कृते रोजगारः उपलभ्यते इति अपि विशेषं ध्यानं दातव्यम् ।