
अस्य सुविधायाः लाभं प्राप्तुं यात्रिकाणां ‘दिगियात्र’ एप् मध्ये पञ्जीकरणं कृत्वा स्वविवरणं दातव्यं भविष्यति। अस्मिन् आधारद्वारा सत्यापनम् भविष्यति, यात्रिकस्य अपि छायाचित्रं ग्रहीतव्यं भविष्यति।
नागरिकविमाननमन्त्री ज्योतिरादित्यसिन्धिया गुरुवासरे राष्ट्रियराजधानीयाम् विमानस्थानके मुखपरिचयस्य आधारेण विमानयात्रिकाणां प्रवेशस्य अनुमतिं दातुं डिजित्रा इति सुविधां प्रारब्धवान्। डिजियात्रा’ इति माध्यमेन यात्रिकाः विमानस्थानकेषु कागदरहितं (कागजरहितं) प्रवेशं प्राप्तुं शक्नुवन्ति तथा च मुखपरिचयद्वारा विभिन्नेषु जाँचस्थानेषु यात्रिकाणां विवरणानां सत्यापनम् स्वयमेव भविष्यति। सुरक्षापरीक्षाक्षेत्रेषु अपि एषा एव प्रणाली कार्यं करिष्यति।
एषा कागदरहितसुविधा गुरुवासरे देहलीनगरे अपि च वाराणसी बेङ्गलूरु विमानस्थानकेषु आरब्धा अस्ति । एतस्य सुविधायाः लाभं प्राप्तुं यात्रिकाणां ‘दिगियात्र’ एप्इत्यत्र पञ्जीकरणं कृत्वा स्वविवरणं दातव्यं भविष्यति। अस्मिन् आधारद्वारा सत्यापनम् भविष्यति, यात्रिकस्य अपि छायाचित्रं ग्रहीतव्यं भविष्यति।
विमानस्थानकस्य ई द्वारे यात्रिकं प्रथमं बारकोड् बोर्डिंग् पासं स्कैन् कर्तव्यं भविष्यति ततः तत्र स्थापिता ‘मुखपरिचयप्रणाली’ यात्रिकस्य परिचयं यात्रादस्तावेजं च सत्यापयिष्यति। एतस्याः प्रक्रियायाः अनन्तरं यात्रिकः ई द्वारेण विमानस्थानकं प्रविष्टुं शक्नोति।