
– आगराजनपदाय मार्चमासे प्राप्स्यते सूचनाप्रौद्योगिकी–उद्यानस्य उपहारः
– सूचनाप्रौद्योगिकी–उद्याने युवभ्यः प्राप्स्यते वृत्तिः
– विकासेन सह सामान्यजनस्य सुविधायै क्रियन्ते कार्याणि
आगरा । ताजनगर्यां मुख्यमन्त्री योगी आदित्यनाथः सम्मेलनं सम्बोधयन् महतीं घोषणां कृतवान् । मुख्यमन्त्री योगी उक्तवान् यत् उत्तरप्रदेशसर्वकारः आगरानगरं शिक्षायाः, सूचनाप्रौद्योगिकीनां च केन्द्रं निर्मास्यति । सः अवदत् यत् मार्चमासात् पूर्वं नूतना नीतिः आगमिष्यति, यस्मिन् आगरानगराय सूचनाप्रौद्योगिकी–उद्यानस्य उपहारः प्रदास्यते ।
मुख्यमन्त्रिणा योगिना उक्तं यत् ताजट्रैपेजियमक्षेत्रे (टीटीजेड–इत्यस्मिन्) आगरानगराय विशेषक्षेत्रस्य श्रेणी प्राप्स्यते । यस्मिन् बहवः उपहाराः सूचनाप्रौद्योगिकी–उद्यानस्य निर्माणे उद्यमिनः प्राप्स्यन्ते । सूचनाप्रौद्योगिकी–उद्यानैः सहस्रेभ्यः युवभ्यः वृत्तिः प्राप्स्यते । सः अवदत् यत् पञ्चवर्षेषु उत्तरप्रदेशस्य चित्रं परिवर्तितम् । मुख्यमन्त्री उक्तवान् यत् केन्द्र–राज्य–सर्वकारः न केवलं विकासाय अपितु सामान्यजनस्य सुविधायै अपि यत्नपूर्वकं कार्यं कुर्वन्तौ स्तः ।
सूचयामि यत् आगराजनपदस्य सुनरीग्रामे द्वेएकड़मितं भूमौ अस्य निर्माणं क्रियते । एतन्निमित्तं आगराविकासप्राधिकरणेन भूमिः उपलब्धा कारिता । सूचनाप्रौद्योगिकी–उद्याने पञ्चविंशतितः अधिकानि स्टार्टअप-संस्थानि, सूचनाप्रौद्योगिकीसंस्थाश्च स्थापयितुं योजना अस्ति । एषः षड्तलीयभवनस्य प्रस्तावः अस्ति । एतत् ताजनगर्याः प्रथमं सूचनाप्रौद्योगिकी–उद्यानम् अस्ति । सूचनाप्रौद्योगिकी–उद्यानस्य विकासाय प्रायशः विंशतिकोटिरूप्यकाणि व्यय्यन्ते । अत्र विवरणसञ्चारसुविधाः उपलभ्यन्ते । एकस्मिन् सूचनाप्रौद्योगिकी–उद्याने सूचनाप्रौद्योगिकीसम्बद्धाः प्रायशः सार्धैकशततः द्विशतयावत् उद्यमिनः स्ववृत्तिम् आरब्धुं शक्नुवन्ति । सूचनाप्रौद्योगिकीक्षे नवीनेभ्यः उद्यमिभ्यः अवसराः प्राप्स्यन्ते अपि च निर्यातं अपि वर्धिष्यति ।
आगराजनपदे अनेकानि बृहत् अभियांत्रिकीसंस्थानि सन्ति । प्रतिवर्षं शतशः सूचनाप्रौद्योगिकी-छात्राः वृत्त्यार्थं नगरात् बहिः गच्छन्ति । नोएडा, चण्डीगढ, दिल्ली, बेङ्गलूरु इत्यादिषु नगरेषु वृत्तयार्थं ते धावनं कुर्वन्ति । सूचनाप्रौद्योगिकी–उद्यानस्य निर्माणानन्तरं आगरानगरे एव सूचनाप्रौद्योगिकीसम्बद्धाः छात्राः वृत्त्यः प्राप्तुं शक्नुवन्ति।