
-मुख्यमन्त्रिणः योगिनः निर्देशे आगामीसत्रे अष्टादशमण्डलेषु उद्घटिष्यन्ते अटल–आवासीयविद्यालयाः
उत्तरप्रदेशस्य योगीसर्वकारेण निर्धनेभ्यः वञ्चितेभ्यः च छात्रेभ्यः शिक्षया सह योक्तुं यद् अभियानम् आरब्धम् तस्मिन् दिने दिने नूतनानि उदाहरणानि योजिताः भवन्ति । अस्मिन् क्रमे सम्पूर्णराज्ये आगामिशैक्षणिकसत्रे चत्वारिंशतोत्तरचतुर्शताधिकैकसहस्रं छात्रेभ्यः अटल-आवासीय-विद्यालयेषु प्रवेशः प्रदास्यते । प्रत्येकस्मिन् विद्यालये द्वयोः विभागयोः आहत्य अशीतिः छात्रेभ्यः प्रवेशं दातुं सज्जता अस्ति । एतदर्थं राज्यस्य विभिन्नेषु अष्टादशमण्डलेषु अटल-आवासीय-विद्यालयाः सज्जीक्रियन्ते । एतेषु सप्त पूर्णतया सज्जाः सन्ति । यदि केनचित् कारणेन शेषविद्यालयाः समये सज्जाः न सन्ति तर्हि शेषबालानां समीपस्थे कार्यात्मके आवासीयविद्यालये प्रवेशः प्रदास्यते ।
मुख्यसचिवस्य दुर्गाशंकरमिश्रस्य समक्षं आयोजितायां उच्चस्तरीयसभायां एषा सूचना दत्ता। प्राचार्यस्य, कर्मचारिणां च नियुक्तिप्रक्रिया अपि शीघ्रमेव आरप्स्यते । उल्लेखनीयम् अस्ति यत् मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् अटल–आवासीयविद्यालयस्य निर्माणस्य प्रमुखा कार्यवाही सर्वकारेण स्वहस्तयोः स्वीकृता अस्ति । राज्यसर्वकारः राज्यस्य सर्वेषु मण्डलेषु अटल-आवासीय-विद्यालयानाम् स्थापनार्थं प्रक्रियाम् कुर्वन् अस्ति । प्रथमचरणस्य राज्यस्य अष्टादश–आयुक्तक्षेत्रेषु अष्टादश–अटल–आवासीय–विद्यालयाः स्थाप्यन्ते । एतानि विद्यालयानि राज्यस्य अष्टादश–आयुक्तमुख्यालयेषु द्वादशतः पञ्चादश एकड़पर्यन्तं क्षेत्रे स्थापयिष्यन्ते ।
2023तमस्य वर्षस्य जूनमासं यावत् सम्पन्ना भविष्यति प्रवेशप्रक्रिया
राज्य आरक्षणनीत्यानुसारं छात्राणां चयनं भविष्यति । प्रारम्भिकवर्षेषु छात्राणां चयनं सीबीएसईद्वारा भविष्यति, पश्चात् परिषदसञ्चालनसमितिः छात्राणां चयनं करिष्यति । सम्प्रति प्रवेशनीतेः प्रक्रिया सम्पन्ना अस्ति, सर्वकाराद् अनुमोदनं प्राप्त्यनन्तरम् अधिसूचना निर्गता भविष्यति अनन्तरं परीक्षाद्वारा चयनितछात्राणां परामर्शद्वारा अन्तिमप्रवेशः क्रियते । सम्भावना वर्तते यत् 2023तमस्य वर्षस्य मईमासे परीक्षां कर्तुं शक्यते, अन्तिमप्रवेशप्रक्रिया च 2023तमस्य वर्षस्य जूनमासे सम्पन्ना भविष्यति ।
सीबीएसईद्वारा चयनं भविष्यति स्थायीकर्मचारिणाम्
आगामिसत्रस्य कृते कर्मचारिणां चयनमपि शीघ्रमेव करिष्यते । स्थायीकर्मचारिणां चयनं सीबीएसईद्वारा भविष्यति । प्रत्येकस्मिन् विद्यालये प्राचार्यः, प्रशासकः, एकादशशिक्षकाणां समूहः भविष्यति। अस्थायीपदस्य कृते प्राचार्यस्य या योग्यता निर्धारिता तदनुसारम् अभ्यर्थी नवोदयस्य अथवा सैनिकविद्यालयस्य प्राचार्यपदात् सेवानिवृत्तः भवेत् ।
अभ्यर्थिनः षष्टितः पञ्चषष्टिवर्षाणां मध्ये अपि स्वस्थः भवेत् । तथैव एड्मिन–इत्यस्य कृते सैन्यस्य पूर्वराजपत्रिताधिकारी भवितुम् अनिवार्यम् अस्ति । आयुः पञ्चाशत् वर्षाणाम् अधिकः न भवेत् । तथैव शिक्षकाणां कृते नवोदयस्य, सैनिकविद्यालयस्य, केन्द्रियविद्यालयस्य अथवा माध्यमिकविभागस्य एव शिक्षकपदात् सेवानिवृत्तः अभ्यर्थी योग्यः मन्यते । तेषां वयः अपि षष्टितः पञ्चषष्टिपर्यन्तं भवेत् । तदर्थनियुक्तिः अप्रैलमासस्य प्रथमसप्ताहपर्यन्तं सम्पन्नः भवितुम् अर्हति इति सम्भावना वर्तते ।
मण्डलसञ्चालनसमित्याम् भविष्यति आयुक्तः अध्यक्षः
अटल–आवासीय–विद्यालयसञ्चालनस्य आरम्भानन्तरं छात्राणां चयनम्, विद्यालयानां सञ्चालनं निरीक्षणं च मण्डलसञ्चालनसमित्याः माध्यमेन भविष्यति । एषा एकप्रकारेण जिलास्तरीयनिरीक्षणसमितिः भविष्यति या जनपदेष प्रवेशप्रक्रियां द्रक्ष्यति । अस्यां समित्यां जनपदस्य आयुक्तः अध्यक्षः भविष्यति, यद्यपि जिलाधिकारी उपाध्यक्षः भविष्यति ।
उपश्रमायुक्तः सदस्यसचिवः भविष्यति तु बेसिकशिक्षाधिकारी, जिलाविद्यालयनिरीक्षकः, बेसिकशिक्षाया अपरनिदेशकः, नवोदयस्य प्राचार्यः, अटल–आवासीयविद्यालयस्य प्राचार्यः अपि च वित्तविभागस्य अतिरिक्तायुक्तः अपि च मुख्यकोषाधिकारी (आयुक्तेन नामाङ्कितः) च समित्याः सदस्याः भविष्यन्ति ।
निर्धनेभ्यः छात्रेभ्यः प्राप्स्यते समर्थनम्
उत्तरप्रदेशे निर्माणश्रमिकेभ्यः निर्धनबालेभ्यः च योगिसर्वकारेण अटल–आवासीयविद्यालययोजना आरब्धा अस्ति । अनेकानां निर्माणश्रमिकाणां दारिद्र्यस्य साधनाभावस्य च कारणात् तेषां बालकाः प्रवेशं स्वीकृत्य विद्यालयेषु प्रवेशं ग्रहीतुं वा शिक्षां निरन्तरं कर्तुं वा न शक्नुवन्ति । राज्यसर्वकारः केवलं निर्माणकार्यकर्तृणां एतादृशानां बालकानां कृते अटल-आवासीय-विद्यालयान् निर्माति । अस्याः योजनायाः उद्देश्यं पञ्जीकृतनिर्माणकार्यकर्तृणां बालकानां कृते प्राथमिक, कनिष्ठ उच्चविद्यालयस्य, माध्यमिकस्तरस्य च शिक्षायाः सुविधाः प्रदातुं गुणवत्तापूर्णशिक्षां प्रदातुं वर्तते।
सर्वेषु विद्यालयेषु अत्याधुनिकशिक्षा भविष्यति, यदा तु बालस्य क्रीडायां रुचिः अस्ति तर्हि क्रीडाक्रियासु प्रोत्साहनार्थं कार्यं क्रियते। यदि कस्यचित् बालकस्य अध्ययनात् परं कस्मिन् अपि क्षेत्रे स्वकौशलं दर्शयितुं मञ्चस्य आवश्यकता भवति तर्हि कौशलविकासाधीना अस्यां संस्थायां तत्प्रकारस्य सुविधा प्रदत्ता भविष्यति । विद्यालये निवासस्य, सर्वविधसुविधानां च व्यवस्था सर्वकारः करिष्यति ।