
जगदीश डाभी
‘अतुल्य वारसो’ इत्येन गुजरातराज्यस्य प्रत्येकमण्डलात् विविधक्षेत्रेषु गुजरातस्य ऐतिहासिकसास्कृतिकपरंपराया: विविधमाध्यमेन जागरूकताया: कृते सराहनीयं उत्कृष्टं च कार्यं कृतवन्त: गीर सोमनाथ जनपदस्य चतुर्णां जनानां ‘अतुल्य वारसो आईडेंटिटी’ इत्येन पुरस्कारेण सम्मानं गांधीनगरे दिसम्बर मासस्य २५-दिनांके भविष्यति । यस्मिन् गीर सोमनाथमण्डलात् कुलचतुर्जनाः चयनिताः सन्ति ।
श्रीपियूष फोफंडी, वेरावलम् (विरासत-जागरूकता), श्रीदिपक सिंघवड:, वेरावलम् (सामाजिक-कार्यकर्ता, पर्यावरणं, विरासत, लेखनं च), श्रीराजेश भजगोतर:, काजली, वेरावलम् (लेखनम्), श्रीमती वर्षा रुपारेलीया, तालाला (कला) च । सामाजिक-कार्यकर्ता, वार्ताहरश्च श्रीदिपक सिंघवड: उक्तवान् यत् सोमनाथमण्डलात् ‘अतुल्य वारसो आईडेंटिटी’ पुरस्काराय कृते मम चयनम् अभवत् अत: अहं श्रीकपिल ठाकर महोदयस्य तथा दलस्य ह्रदयेन धन्यवादं करोमि ।
धरोहरः अस्माकं भारतस्य सांस्कृतिकपरंपरा वर्तते। यत् अतीत-इतिहासस्य स्मृतयः सजीवं करोति तथा च आगामि-नूतन-वंशक्रम: प्रति सांस्कृतिक-धरोहरस्य परिचयं अपि करोति ।