
– रियलस्टेटक्षेत्रे योगिसर्वकाराय अधिकनिवेशस्य विश्वासः
– अस्मिन् क्षेत्रे पञ्चवर्षेषु 7.3लक्षकोटिरुप्यकाणां निवेशस्य स्थापितं लक्ष्यम्
– नगरीयक्षेत्रे अग्रिमपञ्चवर्षेषु निर्मास्यन्ते चतुःषष्टिलक्षं नवीनगृहाणि
– रियलस्टेटक्षेत्रे निवेशं क्रियमाणेभ्यः प्रोत्साहितं करिष्यति सर्वकारः
लखनऊ । उत्तरप्रदेशम् एकखरब–अर्थव्यवस्थां प्रति नेतुम् प्रयतमानः योगिसर्वकारः एतादृशान् क्षेत्रान् चयनं करोति यत्र निवेशस्य प्रबलसम्भावना वर्तते। अस्मिन् क्रमे निवेशदृष्ट्या रियलस्टेटक्षेत्रं दृढस्तम्भरूपेण गण्यते। योगिसर्वकारस्य अनुमानम् अस्ति यत् आगामिषु पञ्चवर्षेषु रियलस्टेटक्षेत्रे 7.3लक्षकोटिरूप्यकाणां निवेशः आगन्तुं शक्नोति । अस्मिन् नगरक्षेत्रेषु विशेषतया अवधानं दीयते । अस्यान्तर्गतं नगरक्षेत्रेषु लघुविपण्यसमीपे चतुःषष्टिलक्षं गृहाणि निर्मितानि भविष्यन्ति, येषु एच–आई–जी, एम–आई–जी, एल–आई–जी, ई–डब्लू चेत्यादीनाः गृहाणि सन्ति । एतेषां गृहाणां निर्माणार्थं योगिसर्वकारः निजीसंस्थाभ्यः निवेशं कर्तुं प्रोत्साहयिष्यति ।
आगामिषु पञ्चवर्षेषु चतुःषष्टिलक्षम् अतिरिक्तगृहाणां भविष्यति आवश्यकता
मुख्यमन्त्री योगी आदित्यनाथः गतदिवसेषु उपवेशने अधिकारिभ्यः सर्वेक्षणप्रतिवेदनस्य उद्धरणं दत्त्वा उक्तवान् यत् 2020-21तमे वर्षे उत्तरप्रदेशस्य सकलराज्यघरेलुउत्पादे (जीएसडीपी) रियलस्टेटक्षेत्रस्य योगदानं 14.4प्रतिशतम् अस्ति, यत् चतुस्त्रिंशत् अरबरूप्यकाणां सापेक्षम् अस्ति अपि च प्रायः २० लक्षं जनाः अस्मिन् क्षेत्रे सम्बद्धाः सन्ति । मुख्यमन्त्रिणा योगिना अधिकारिभ्यः निर्देशः दत्तः यत् अस्मिन् विषये ध्यानं दातुम् आवश्यकता वर्तते यतोऽहि प्रतिवेदनानुसारं राज्ये विकासाय, रोजगाराय च नूतनान् अवसरान् प्रदातुं अयं क्षेत्रः सहायकः भवितुम् अर्हति । प्रतिवेदने उक्तं यत् सम्प्रति राज्यस्य जनसङ्ख्या 23.09कोटिः अस्ति, येषु 23.7प्रतिशतं जनसङ्ख्या नगरक्षेत्रेषु निवसति यत् 5.47कोटिः अस्ति अपरपक्षे 2027तमे वर्षे राज्यस्य जनसङ्ख्या 24.47कोटिः भविष्यति, यस्मिन् नगरक्षेत्रेषु 35 प्रतिशतं जनसङ्ख्या वर्धते, अथवा 8.56कोटिः भविष्यति एतादृशे सति आगामिषु पञ्चवर्षेषु राज्यस्य नगरक्षेत्रेषु 3.09कोटिजनसङ्ख्या वर्धते । सम्प्रति नगरक्षेत्रे 10.7लक्षं गृहाणि सन्ति, यदा तु आगामिषु पञ्चवर्षेषु जनसङ्ख्यानुसारं नगरक्षेत्रे 64लक्षं गृहाणि आवश्यकानि भविष्यन्ति एतदेव कारणं यत् रियलस्टेटक्षेत्रे उल्लासः भविष्यति, यत् राज्यस्य एकखरब-अर्थव्यवस्थां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति ।
चतुःषष्टिलक्षगृहाणां कृते पञ्चसप्ततिसहस्रम् एकड़भूम्याः आवश्यकता
मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् चतुःषष्टिलक्षं गृहनिर्माणे 7.3लक्षकोटिरूप्यकाणां निवेशः भविष्यति । चतुःषष्टिलक्षगृहेषु एचआईजी–एमआईजी–एलआईजी–ईडब्ल्यूएस चेत्यादयः श्रेण्यः सम्मिलिताः सन्ति । अनुमानानुसारं एकस्य गृहनिर्माणस्य औसतव्ययः प्रतिवर्गफिटमितस्य पञ्चादशशतरुप्यकाणि भविष्यति । एतेषां गृहाणां निर्माणे निजरियलस्टेटसंस्था पञ्चषष्टिप्रतिशतं योगदानं दास्यति यद्यपि पञ्चत्रिंशतप्रतिशतं योगदानं सर्वकाराधीनस्य प्राधिकरणस्य भविष्यति । एतेषां गृहाणां निर्माणार्थं पञ्चसप्ततिसहस्रम् एकड़भूम्याः आवश्यकता भविष्यति, यस्मात् सर्वकारस्य समीपे सम्प्रति द्वात्रिशतसहस्रम् एकड़भूमिः उपलब्धा अस्ति । एतादृशे समये सर्वकारेण त्रिचत्वारिंशतसहस्रम् एकड़भूम्याः इतोऽपि व्यवस्था करणीया भविष्यन्ति।
प्रदेशं चतुर्षु भागेषु विभक्तम्
मुख्यमन्त्री योगी आदित्यनाथः राज्ये रियलस्टेटक्षेत्रं वर्धितुं एतं चतुर्षु भागेषु विभक्तवान् । अस्मिन् पश्चिमक्षेत्रे राष्ट्रीयराजधानीक्षेत्रस्य गाजियाबादजनपदः, गौतमबुद्धनगरजनपदः, मेरठजनपदः च सम्मिलितः। अत्र जनसङ्ख्यावृद्धिः भविष्यति यतः अत्रत्याः विनिर्माणक्षेत्रं वृद्धिराज्यमूल्यवृद्धौ सप्तषष्टिप्रतिशतं योगदानं ददाति । नूतनानां संस्थानाम् आगमनेन रोजगारस्य साधनानि वर्धन्ते, येन जनाः तत् प्रति आकर्षयिष्यन्ति । तथैव मध्यक्षेत्रे लखनऊ, कानपुर इत्यादीनि नगराणि भविष्यन्ति, येषां विनिर्माणक्षेत्रस्य राज्यस्य वृद्धिराज्यमूल्यवर्धनस्य त्रयोदशप्रतिशतं भागः अस्ति । एतदतिरिक्तं दक्षिणक्षेत्रे बुण्डेलखण्डक्षेत्रं समावेशितम् अस्ति, यस्मिन् चित्रकूटः प्रमुखः अस्ति यतोऽहि अत्र रक्षावीथ्याः कार्यं द्रुतगतिना प्रचलति तथा पूर्वक्षेत्रे वाराणसीजनपदः, प्रयागराजः, मऊजनपदः, गोरखपुरः, सोनभद्रः, अयोध्या च सम्मिलिताः । अत्र चिकित्साक्षेत्रे, वाणिज्यिक-रियल–स्टेट-क्षेत्रे, पर्यटनक्षेत्रे च अपारसम्भावनाः सन्ति ।