
-उक्तम् – भारतम् आर्थिकमहाशक्तिं निर्मातुं दिशि महत्त्वपूर्णपगं सिद्धः भविष्यति
लखनऊ । मुख्यमन्त्रिणा योगिना आदित्यनाथेन सामान्य–अर्थसङ्कल्पं 2023-24–इति लोककल्याणकारी उक्ता अस्य प्रशंसा कृता । मुख्यमन्त्रिणा ट्विट् कृत्वा प्रत्येकवर्गस्य समृद्ध्याः मार्गप्रशस्तं कुर्वाणः केन्द्रिय–अर्थसङ्कल्पस्य स्वागतं कृतम् । साकमेव सर्वसमाजस्य हितानाम् अवधानाय प्रधानमन्त्रिणः केन्द्रियवित्तमन्त्रिणः च अभिनन्दनं कृतम् ।
मुख्यमन्त्रिणा उक्तं यत् केन्द्रिय–अर्थसङ्कल्पेन ग्रामाः, निर्धनाः, कृषकाः, युवानः, महिलाः च समाविष्टाः राष्ट्रस्य समग्रस्य उत्थानस्य आशाः अपेक्षाः च पूरयितुं गच्छन्ति। भारतं आर्थिकमहाशक्तिं कर्तुं दिशि एतत् अर्थसङ्कल्पः निःसन्देहं महत्त्वपूर्णं पगं सिद्धं भविष्यति।
केंद्रीय बजट 2023-24 पर… pic.twitter.com/LkZvGaxhik
— Yogi Adityanath (@myogiadityanath) February 1, 2023
2023-24तमस्य वर्षस्य सामान्य–सङ्कल्पस्य ‘नूतनभारतस्य’ समृद्धेः संकल्पः अस्ति, अन्त्योदयस्य दृष्टिः अस्ति, त्रिंशत्यधिकैशतकोटिदेशवासिनां सेवायाः उद्देश्यं च अस्ति ।
मुख्यमन्त्रिणा उक्तं यत् स्वातन्त्र्यस्य अमृतकाले प्रस्तुतस्य ‘विकसितभारतस्य’ सङ्कल्पस्य पूर्तये सर्वसमावेशी जनकल्याणकारी च केन्द्रिय–अर्थसङ्कल्पस्य 2023-24–इत्यस्य स्वागतं करोमि ।