
लखनऊ । समापनसत्रस्य आयोजनं उत्तरप्रदेशसंस्कृतसंस्थान, लखनऊद्वारा संचालितसंस्कृतभाषाशिक्षणकक्षाणाम् अन्तर्गतं कृतम्। सत्रे सर्वे प्रशिक्षकाः उपस्थिताः आसन्। आदौ सरस्वतीवन्दनेन सह वैदिकाह्वानं एकलदेशभक्तिगीतानि च प्रस्तुतानि आसन्।
स्वागतगीतस्य अनन्तरं सर्वे प्रशिक्षकाः उ० प्र० संस्कृतसंस्थानकक्षाणां स्वानुभवं प्रकटीकृतवन्तः। समापनकार्यक्रमस्य अवसरे प्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः भारतीयानां मूलं संस्कृतम् इति अवदत्। संस्कृते उपलभ्यमानानि सर्वाणि शास्त्राणि भारतस्य वैभवं दर्शयन्ति। सः अवदत् यत् धर्मशास्त्राणि अस्माकं जीवनपद्धतिं वर्णयन्ति। यदि वयं नीरक्षीरविवेकगुणिनः हंसाः भवेम तर्हि सरस्वती अवश्यमेव अस्माकमुपरि वत्स्यति। अस्माभिः संस्कृताध्ययनेन सुजीवनं यापनीयम्। तेन सह उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः अपि समापनस्य अवसरे देशस्य विश्वस्य च प्रति अस्माकं दायित्वस्य विषये अवदत्।
योजनायामस्यां अधिकतमपञ्जीकरणेन जनानां लाभः, प्रशिक्षकाणां अथकपरिश्रमस्य कारणेन वर्गसञ्चालनार्थं प्रोत्साहनं, योजनायामस्यां नूतनानां जनानां अध्यापनस्य अवसराः च इति विषये अपि चर्चाः अभवन् कार्यक्रमे सर्वे प्रशिक्षकाः उपस्थिताः आसन्। तत्र योजना सर्वेक्षक डॉ. जगदानंद झा, प्रशिक्षण प्रमुख: ,सुधिष्ठ मिश्र:, संस्थाधिकारी चंद्रकला शाक्य:, प्रशिक्षण समन्वयक: धीरज मैठाणी, नागेश दुबे, दिव्यारंजन:, राधा शर्मा इत्यादयः उपस्थिताः आसन्। अन्ते प्रशिक्षकाः शान्तिमन्त्रेण सत्रस्य समापनम् अकुर्वन्। संस्कृतभाषावर्गाणां (उभयस्तरस्य) निःशुल्कपञ्जीकरणार्थम् 👇 https://sanskritsambhashan.com नवप्रशिक्षकाणां पञ्जीकरणार्थम्। https://forms.gle/FJk87a5X4SWa7jhr9 ।