
वाराणस्याम्। ०४ वर्षं यावत् अनवरतं परिश्रमं कृत्वा “मीरजापुर ब्लड डोनर क्लब” इत्यनेन सङ्घटनेन २५ रक्तदातृभ्य: रक्तदानं कृत्वा वार्षिकोत्सवस्यायोजनं विहितम्। तस्मिन् कार्यक्रमे मातुः विन्ध्यवासिन्या: प्रतिमायाः उपरि माल्यार्पणं कृत्वा उद्घाटनं समाचरितम्।
तत्र संस्थायाः संस्थापकः श्रीकृष्णानन्दहैहयवंशी आरम्भात् अधुनापर्यन्तं संस्थया कृतकार्याणां विवेचनपुरस्सरं अतिथीनामभिनन्दनं विहितम्। तेनोक्तम् यद् तेषां प्रमुखोद्देश्यं वर्तते यत् कश्चनपि रक्ताभावे स्वीयं जीवनं न त्यजेत् अत: सर्वैरपि यथाशक्यं रक्तदानं करणीयम्। अस्मिन् अवसरे संध्यायां मीरजापुरनगरस्य प्रतिष्ठिते कृष्णाचिकित्सालयपरिसरे आयोज्यमाणे कार्यक्रमे नगरस्य नैके समाजसेवका: चिकित्सका: तथा कार्यकर्तारः समवेत्ता: आसन्।
अथ च भारतीयज्योतिषसंस्थानस्य मान्याः सङ्घटनप्रमुखा: आचार्यधीरजदुबेवर्या: वाराणसीत: समागताः तेन स्वीयोद्बोधने जीवनस्य वास्तविकीं घटनां श्रावयित्वा समेषामपि कण्ठावरूद्धं कृतम्। सहैव आचार्यदीनदयालशुक्ल: सङ्घटनस्य (प्रदेशशिक्षाप्रमुख:) उपस्थितः आसीत्।तेन कथितं यद् अस्माकं परतया यदि क्वचिदपि आवश्यकता वर्तते चेदस्माकं सङ्घटनं सर्वदा समाजाय कृतसङ्कल्प: वर्तते।
मिर्जापुरे आयोजित विन्ध्यफाउण्डेशनट्रस्ट द्वारा रक्तदातासमूहमिर्जापुरम् इत्यस्मिन् कार्यक्रमे साक्षीभूता: अभवन् । सर्वेषां सम्बोधनं अपि परिचयपूर्वकं परस्परं कृतवन्त:। कार्यक्रमे मुख्यातिथि: डॉ. सी.वी. जायसवाल: , डॉ० के०के० जायसवाल: स्वामी प्रवीणकुमार:, आनन्दकुमार:, दीपकगुप्ता, अनमोलसिंह:, निशान्तगुप्ता, रामकुमारगुप्ता, मोहितकसेरा, तथा गुरुद्वारा त्रिमुहानी इत्यस्य प्रमुख: श्रीश्यामसुन्दर: तथा जिलामहामन्त्री भारतीयजनतादलस्य श्रीसन्तोषगोयलवर्य: नैके जनप्रतिनिधयः व सामाजिका: सम्भूताः आसन्। कार्यक्रमस्य सफलसञ्चालनम् आशुतोषकुमारेण कृतम्।