
-‘वर्तमानकाले अर्वाचीनसंस्कृतवाङ्मयस्य उपादेयता’ इत्यस्मिन्विषये संजायते शोधसम्मेलनं ।
-शोधसम्मेलनस्य उद्घाटनम् 17 मार्च 2023 दिनांके च समापनम् 18 मार्च 2023दिनांके सम्पत्स्यते ।
उत्तराखण्ड, कुलदीपमैन्दोला। संस्कृतस्य प्रचाराय प्रसाराय अनेकविधाः कार्यक्रमाः उत्तराखण्ड-संस्कृत-अकादम्या समायोज्यन्ते । तत्रैव नवीनानुसन्धानमनुसृत्य उत्तराखण्ड-संस्कृत-अकादमीद्वारा मार्चमासे द्विदिवसीयम् अखिलभारतीयं संस्कृतशोधसम्मेलनम् समारप्स्यते ।
अर्वाचीनं संस्कृतवाङ्मयम् आश्रित्य अखिलभारतीयसंस्कृत- शोधसम्मेलने आचार्याः, उपाचार्याः, सहायकाचार्याः, व्याख्यातार:, प्रवक्तारः, शिक्षकाः, शोधच्छात्राः, संस्कृतविद्वांसः विदुष्यश्च शोधसन्दर्भे समामन्त्रिता:। सम्मेलने प्रतिभागिनः कमप्येकं निर्धारितं विषयमधिकृत्य शोधपत्रं प्रस्तुतं करिष्यन्ति । सम्मेलनस्य मुख्यविषयः ‘वर्तमानकाले अर्वाचीनसंस्कृतवाङ्मयस्य उपादेयता’ इत्यस्ति ।
वित्तसहकारः श्रीकन्हैयारामः सार्की (कोषाध्यक्ष:) , मुख्यसंयोजक: श्रीशिवप्रसादखालीवर्य:(सचिव:) , सहसंयोजकः श्रीकिशोरीलालरतूडी (प्रकाशनाधिकारी) संयोजक: डॉ.हरीशचन्द्रगुरुरानी (शोध-अधिकारी) संयोजकमण्डलत्वेन सम्मेलनमिदमलंकरिष्यन्ति । सम्मेलने अर्वाचीनसंस्कृतवाङ्मये राष्ट्रनीति:, अध्यात्मं, धर्म, संस्कृतिः, शिक्षा, समाज, अभिनवाचार:, विज्ञानतत्त्वानि, लोकोपकारिता, पर्यावरणम्, कला, दर्शनम्, राजनीतिः, प्रशासनिक कौशलम्, न्यायदण्डव्यवस्था, रचनावैचित्र्यं चेत्यादय: उपविषया: शोधपत्रप्रेषणविकल्पा: सन्ति।
शोधपत्रं संस्कृतभाषायामेव च शुद्धं मौलिकं प्रामाणिक, सारगर्भितं शोधप्रविधिसंयुक्तम्, आधुनिकशोधविज्ञानसंवलितं, समाजोपयुक्तं च भवेत् शोधपत्रं मौलिकम् इतः पूर्वं कुत्रापि पठितं प्रकाशितं च न भवेत् इति च शोधपत्रे राष्ट्रविरोधः, संस्कृतविरोधः, व्यक्तिगताक्षेपाः राजनैतिकाक्षेपाः च न भवेयुः इति अकादम्या निर्देशित:
अथ च शोधपत्रं शुद्धं, टङ्कितं, 05 पृष्ठात्मकं ( 3000 शब्दपरिमितम् ) च walkman chankya-901 (Font Size-15) अथवा kurti dev 10 (Font Size – 16 ) इत्यनुसारेण विषयानुरूपसन्दर्भा: सम्मेलनाय प्रेषयितुं शक्यते । अधीनस्थशोधच्छात्राणाम् आवेदनपत्राणि संस्थाध्यक्षया हस्ताक्षरितानि एव सम्मेलने स्वीकरिष्यन्ते । शोधपत्रम् अकादमीकार्यालये अणुवाक् माध्यमेन shodh.usa@gmail.com 27.02.2023 दिनाङ्के रात्रि 12:00 वादनं यावत् अथवा हस्तद्वारा कार्यालयसमयं यावद् अनिवार्यरूपेण प्रेषणीयम् । 27.02.2023 दिनाङ्के रात्रि 12:00 वादनात् परं कस्यचिदपि शोधपत्रं सम्मेलनाय न स्वीकरिष्यते ।
शोधपत्रस्य मूल्याङ्कनानन्तरमेव पञ्जीकृतप्रतिभागिभ्यः शोधसम्मेलने प्रतिभागग्रहणार्थम् आमन्त्रणसूचना 04.03.2023 दिनाङ्के अकादम्या www.uksa.ac.in इत्यत्र प्रकाशयिष्यते । तत्रैव अकादमीद्वारा आन्वीक्षिकी- त्रैमासिक-शोधपत्रिकायाः एकवर्षस्य ग्राहकताशुल्कं रु.200/- दातव्यं भविष्यति । पत्रिका शोधपत्रवाचनस्य प्रमाणपत्रकार्यक्रमस्य समाप्तेः अनन्तरं 18.03.2023 दिनाङ्के प्रदास्यते।
अखिलभारतीयसंस्कृत- शोध-सम्मेलनस्य उद्घाटनम् 17 मार्च 2023 दिनांके प्रारप्स्यते च अखिलभारतीय-संस्कृतशोधसम्मेलनस्य समापनम् 18 मार्च 2023 सम्पत्स्यते । सम्मेलने विद्वद्वरेण्येषु आदरणीयाः कुलपतयः, कुलसचिवाः, प्राचार्याः, प्रधानाचार्याः, संस्कृतविभागाध्यक्षाः, आचार्याश्च उपाचार्याः, सहायकाचार्याः, व्याख्यातार:, प्रवक्तारः, शिक्षकाः, शोधच्छात्राः, संस्कृतविद्वांसः समुपस्थिता: भविष्यन्ति ।