
आचार्यदीनदयालशुक्ल: । संस्कृतस्य विकासाय सततं यतमानं संस्थानम् उत्तरप्रदेशसंस्कृतसंस्थानम् लखनऊद्वारा आयोजित विंशतिदिवसीयसंस्कृतभाषाप्रशिक्षणस्य द्वितीयस्तरीयस्य प्रशिक्षणस्य कार्यक्रम: प्रचलनस्ति। ध्यातव्यमस्ति यत् उत्तरप्रदेशसंस्कृतसंस्थानम् भाषाविभागोत्तरप्रदेशप्रशासनद्वारा संचालिता एका स्वायत्तसायीसंस्था वर्तते। यया संस्थाया निरन्तरं गतेभ्यः बहुवर्षेभ्यः संस्कृतभाषायाः उत्थानाय तथा प्रचारप्रसाराय सततं प्रयासरता वर्तते।
प्रदेशस्य यशस्विनः मुख्यमन्त्रिणः माननीयः महन्तः श्री योगी आदित्यनाथमहाभागाणां ‘ड्रिम्-प्रोजेक्टर्’ इत्यस्य उपलक्ष्ये देवभाषासंस्कृतस्य विकासाय प्रसाराय च संस्कृतसंस्थानं कटिबद्धमस्ति। अपिच संस्थानस्य माननीयाः अध्यक्षाः श्रीविनयश्रीवास्तवमहाभागानां कुशल नेतृत्वे वर्तमान समये सम्पूर्ण भारतवर्षे तथा विदेशेऽपि संस्कृतानुरागिणः नि:शुल्कं विंशतिदिवसीयसरलसंस्कृतभाषा प्रशिक्षणद्वारा संस्कृतस्य ज्ञानं तथा सुसंस्कृतं वातावरणं प्राप्नुवन्तः सन्ति।
अत्र ध्यातव्यमस्ति यत् दीनदयालशुक्ल: उत्तरप्रदेशस्य सातापुरजनापदात् अस्ति। स: सन् २०१७ तमाब्दारभ्य उत्तरप्रदेशसंस्कृतसंस्थाने प्रशिक्षकत्वेन स्वीयां भूमिकां निर्वहनस्ति। विविधजनपदेषु डायटकेन्द्रेषु परिषदीयप्राथमिकेच्चप्राथमिकशिक्षकाणां कृते संस्कृतप्रशिक्षणेषु सन्दर्भदातारूपेणापि अनेन आनलाइन तथा आफलाइन अपि प्रशिक्षणं दत्तमस्ति। अस्मिनेवक्रमे सीतापुरजनपदात् संस्थानस्य प्रशिक्षकः दीनदयालशुक्लद्वारा अपि सामाजिकजनेभ्यः प्राध्यापकेभ्यः सेवानिवृत्तकर्मचारिभ्यः तथा छात्रेभ्यः विंशतिदिवसीयद्वितीयस्तरीय सरलसंस्कृतसम्भाषणस्य प्रचाल्यमाणस्य प्रशिक्षणकार्यक्रमस्य सञ्चालनं क्रियते।
यस्मिन् संस्कृतप्रेमिणः शिष्टाचारद्वारा प्रतिदिनं दैनिकप्रयोगे प्रयुज्यमाणानां शब्दानां विभक्तीनां प्रत्ययानां च सहितं नैकानां व्याकरणनियमानां ज्ञानं तथा सम्भाषणस्य नियमानां ज्ञानं प्राप्तवन्तः। सम्प्रति ते संस्कृतेनैव वदन्तः अपि सन्ति। धातव्यमस्ति यत् उत्तरप्रदेशसंस्कृतसंस्थान विंशतिदिवसीय नि:शुक्लप्रशिक्षणेन सह प्रमाणपत्रमपि प्रदीयते। अस्मिन् समापनसत्रे सम्पूर्णदेशेभ्यः उर्मिलाठाकुर, सुब्रतपहाडी, कामिनीदेवी, वेदप्रकाशशर्मा, थाणेश्वर, मयङ्कगोतम:, बन्दनझा, कंचनराज प्रजापति:,पूजा,धीरेन्द्र:, अञ्जलित्रिपाठी, गणेश:, परिषदियविद्यालयशिक्षक: (मुरादाबादत:) मुकुलकौशिक:, नीरजशास्त्री, मनोजकुमार:, हेमन्तचौबे, हिमांशू मिश्र:, भविनी, बलरामः, आचार्यरोहितमिश्र:, अनिलशर्मा, शिवमतिवारी, पुस्तकसिंह इत्यादयः उपस्थिताः आसन्।
समग्रकार्यक्रमः गूगलमीट् द्वारा एव आयोजित: भवति। कार्यक्रमे अस्मिन् कार्यक्रमस्यसंयोजकः प्रशिक्षणप्रमुख: सुधिष्ठमिश्र: तथा समन्वयक: धीरजमैठाणीमहोदयः श्रीदिव्यरञ्जनवर्य:, सुश्रीराधाशर्मा, नागेशदुबेवर्य: अपि मध्ये-मध्ये परिशीलनं च कुर्वन्ति। अपि च संस्थानस्य पदाधिकारिणः डॉ० जगदानन्दझावर्या:, श्रीमती चन्द्रकलाशाक्यमहोदया: तथा अध्यक्ष: श्रीमान् विनयश्रीवास्तवमहोदयानां निर्देशने एव एतद् प्रशिक्षणं प्रचलदस्ति।