
नवदेहली। राष्ट्रीय अन्वेषणसंस्थायाः अर्थात् एनआइए (NIA) इत्यनेन मंगलवासरे प्रातःकाले अष्टसु राज्येषु ७० स्थानेषु छापा मारिता। राजस्थान, पञ्जाब:, हरियाणा, देहली, चण्डीगढ़:, मध्यप्रदेश, गुजरात:, उत्तरप्रदेशे च एनआइए एकत्रैव कार्यवाही कुर्वती अस्ति। राजस्थाने छापेमारीकाले गैङ्गस्टर लॉरेन्सस्य पाकिस्तानसम्बन्धः अपि प्राप्तः अस्ति।
सूत्रानुसारं आतङ्कवादवित्तपोषणे विभिन्नराज्येषु प्रसारितस्य लॉरेन्सस्य तस्य सिण्डिकेट् च संलग्नतायाः प्रमाणानि प्राप्त्वा अन्वेषणसंस्था एतत् कार्यं कुर्वती अस्ति। सिद्धू मूसेवाला हत्याप्रकरणे जेलस्थौ लॉरेन्सः नीरजबवाना च प्रश्नोत्तरकाले शस्त्रसप्लायर गिरोहस्य आतङ्कवित्तपोषणस्य च स्वीकारं कृतवन्तौ। अस्मिन् छापे एनआइए इत्यनेन अनेकेषु स्थानेषु शस्त्राणि प्राप्तानि इति अपि वार्ता अस्ति ।