
नवदेहली। स्वच्छगङ्गायाः राष्ट्रियमिशनस्य अन्तर्गतं बुधवासरे पश्चिमबङ्गे, उत्तरप्रदेशे, बिहारे, मध्यप्रदेशे च कार्यान्वितुं कुलम् नव परियोजनानां अनुमोदनं कृतम्, यत्र कुलव्ययः १२७८ कोटिरूप्यकाणां भवति। एतेषु सप्त परियोजना गंगाबेसिने प्रदूषणनिवारणपरियोजनानि सन्ति तथा च द्वौ नदीघाटविकासेन सह सम्बद्धौ स्तः। केन्द्रीय जलशक्तिमन्त्रालयस्य विज्ञप्त्यानुसारं एनएमसीजी-कार्यकारिणीसमित्याः ४७ तमे सत्रे एनएमसीजी-महानिदेशकस्य जी अशोककुमारस्य अध्यक्षतायां एताः परियोजनाः अनुमोदिताः।
नमामी गङ्गे अभियानस्य कार्यसमित्या पश्चिमबङ्गस्य चकदहा नगरपालिकायां प्रतिदिनं १.३ कोटि लीटर सीवेज ट्रीटमेण्ट् प्लाण्ट् (एसटीपी) तथा ३० लक्ष लीटर क्षमता विकेन्द्रीकृत एसटीपी निर्माणार्थं १२३ कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति। उत्तरप्रदेशे प्रयागराजस्य सलोरी एसटीपी इत्यस्य मलजलशुद्धिकरणक्षमता प्रतिदिनं ४३ मिलियनलीटरपर्यन्तं वर्धयितुं १३ नालिकानां मार्गान्तरणाय च त्रयाणां परियोजनानां कृते ४२२ कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति।
उत्तरप्रदेशाय स्वीकृता अन्यस्मिन् परियोजनायां मुजफ्फरनगर, मेरठ, हापुर, बुलन्दशहर इत्यत्र ८ स्थानेषु स्थितानां निर्मितानाम् आर्द्रभूमिव्यवस्थानां विकासेन कालीपूर्वनद्याः कायाकल्पस्य कार्याय ९५.४७ कोटिरूप्यकाणि स्वीकृतानि सन्ति। बिहारे सारणनगरे अटलघाटमान्झीघाटस्य विकासाय १० कोटिरूप्यकाणि, लखीसरायनगरे मलजलशुद्धिकरणसंस्थानद्वयस्य (१.०९ कोटिलीटरं १.०६६ कोटिलीटरप्रतिदिनक्षमता च) विकासाय ९४.१२ कोटिरूप्यकाणि अनुमोदितानि सन्ति।
मध्यप्रदेशे इन्दौरनगरस्य कहानसरस्वती नद्यौ प्रदूषणं न्यूनीकर्तुं ५११ कोटिरूप्यकाणां महती परियोजनायाः अनुमोदनं कृतम् अस्ति । औद्योगिकप्रदूषणनिरीक्षणार्थं गंगाबेसिने प्रदूषणपरिचयः, मूल्याङ्कनम्, निगरानीयता च (पीआईएएस) इति परियोजनायाः कृते केन्द्रीयप्रदूषणनियन्त्रणमण्डलेन (सीपीसीबी) ११४.४२ कोटिरूप्यकाणि स्वीकृतानि सन्ति।