
-उत्तरप्रदेशपारिस्थितिकीपर्यटनं, लखनऊपरिषदः स्थापनायै 2.50कोटिरुप्यकाणां धनराशिः विमोचिता
-नैमिषारण्यधामतीर्थविकासपरिषदे अपि 2.50कोटिरुप्यकाणां धनराशिः प्रदत्ता
लखनऊ । योगिसर्वकारस्य 2023-24तमस्य वर्षस्य अर्थसङ्कल्पपत्रे पर्यटनविकासस्य, सांस्कृतिकधर्मार्थकार्यस्य च विषये अपि बलं दत्तम् अस्ति । वित्तमन्त्रिणा सुरेशखन्नाद्वारा अर्थसङ्कल्पपत्रे 237कोटिरूप्यकाणि पर्यटनविकासाय दत्तानि यद्यपि सांस्कृतिधर्मार्थकार्यविभागस्य यानि कार्याणि प्रचलन्ति, तेभ्यः निर्धारितसमये सम्पन्नं भवितु वार्ता उक्ता । वित्तमन्त्रिणा उक्तं यत् 2022तमे वर्षे प्रदेशस्य चतुर्विंशतिकोटिः सप्तदशलक्षाधिकाः पर्यटकाः आगमिष्यन्ति, यस्मिन् भारतीयपर्यटकानाम् सङ्ख्या चतुर्विंशतिकोटिः त्रयाशीतिलक्षं, विदेशीयपर्यटकानाम् सङ्ख्या च चतुर्लक्षं दशसहस्राधिका आसीत् ।
वित्तीय वर्ष 2023-2024 के बजट में मातृ शक्ति के लिए… pic.twitter.com/zyf20cY2mJ
— Yogi Adityanath (@myogiadityanath) February 22, 2023
अन्ताराष्ट्रियराष्ट्रियस्तरस्य च वृहत् कार्यक्रमस्य अपि स्थापितं अवधानम्
वित्तमन्त्रिणा उक्तं यत् अयोध्या–वाराणसी–चित्रकूट–विन्ध्याचल–प्रयागराज–नैमिषारण्य–गोरखपुर–मथुरा–बटेश्वरधाम–चेत्यादिषु महत्त्वपूर्णेषु पर्यटनस्थलेषु पर्यटनविकासस्य सौन्दर्यीकरणस्य च कार्यं युद्धपदे प्रचलति । निर्धारितसमयान्तरे सर्वाणि कार्याणि सम्पन्नं कर्तुं बलं दीयते । तेनोक्तं यत् मुख्यमन्त्रीपर्यटनसंवर्धनयोजनायाः अन्तर्गतं राज्ये स्थितानां पर्यटनस्थलानां विकासः त्रिशतकोटिरूप्यकाणां धनराश्या क्रियते । अपरपक्षे शक्तिपीठमाँशाकम्भरीदेवीमन्दिरस्य समेकितपर्यटनविकासाय वर्तमानवित्तीयवर्षे पञ्चाशतकोटिरूप्यकाणां प्रावधानं कृतम् अस्ति ।
प्रदेश में उज्ज्वला योजना के लाभार्थियों को दीपावली और होली पर एक-एक एलपीजी गैस का सिलेंडर फ्री में उपलब्ध करवाने जा रहे हैं… pic.twitter.com/srXRHtTNiX
— Yogi Adityanath (@myogiadityanath) February 22, 2023
तथैव प्रयागराजस्य समेकितविकासाय चत्वारिंशतकोटिरूप्यकाणां व्यवस्था कृता अस्ति, पर्यटननीतिः 2018–इत्यस्य अन्तर्गतं पर्यटनमात्रकानां प्रोत्साहनार्थं पञ्चचत्वारिंशतकोटिरूप्यकाणां व्यवस्था कृता अस्ति । बौद्धपरिपथस्य समेकितपर्यटनविकासाय चत्वारिंशतकोटिरूप्यकाणां धनराशिः प्रवर्तिता । बुण्डेलखण्डस्य समेकितपर्यटनविकासाय चत्वारिंशतकोटिरूप्यकाणि प्रदत्तानि सन्ति । तथैव शुक्रतीर्थधाम्नः समेकितपर्यटनविकासाय दशकोटिरूप्यकाणि, प्रदेशे युवापर्यटनप्रवर्धनार्थं द्विकोटिरूप्यकाणि, उत्तरप्रदेशस्य पारिस्थितिकीपर्यटनं, लखनऊपरिषदः स्थापनायै 2.50कोटिरूप्यकाणि विनियोजितानि । तत्रैव अन्ताराष्ट्रियराष्ट्रियस्तरयोः वृहत् सम्मेलनस्य कृते पञ्चकोटिरूप्यकाणि, नैमिषारण्यधामतीर्थविकासपरिषदे 2.50कोटिरूप्यकाणि च प्रदत्तानि।
उत्तर प्रदेश में कृषि विकास दर पिछले 06 वर्ष में 3 फीसदी से अधिक बढ़ी है। इसे Double Digit में ले जाना है… pic.twitter.com/8uzUoxNZbV
— Yogi Adityanath (@myogiadityanath) February 22, 2023
संस्कृतिकार्येषु धर्मार्थकार्येषु च आनयिष्यते इतोऽपि अधिकवेगः
वित्तमन्त्रिणा संस्कृतिं धर्मार्थकार्यं च उद्दिश्य उक्तं यत् काशीहिन्दुविश्वविद्यालयपरिसरे वैदिकविज्ञानकेन्द्रस्य स्थापना कृता । अयोध्यायां श्रीरामजन्मभूमिमन्दिरस्य निर्माणं सम्पन्नानन्तरं पर्यटकानां विशालं सम्मर्धम् उद्दिश्य त्रयाणां मार्गाणां विस्तारस्य सौन्दर्यीकरणस्य च कार्यं आगामिवर्षद्वये सम्पन्नं कर्तुं लक्ष्यं निर्धारितम् अस्ति, येषां कार्यं युद्धस्तरे प्रचलति । तथैव मिर्जापुरस्य प्रसिद्धस्य माँविन्ध्यवासिनीदेवीमन्दिरस्य, माँ–अष्टभुजीदेवीमन्दिरस्य, कालीखोहमन्दिरस्य च जीर्णोद्धारस्य सौन्दर्यीकरणस्य च कार्याणि तीव्रतया प्रचलन्ति । प्रयागराजे भजनसन्ध्यास्थलस्य स्थापना अपि च सीतापुरे प्रसिद्धतपोस्थल्यां नैमिषारण्ये वेदविज्ञानाध्ययनकेन्द्रस्य स्थापनायाः प्रस्तावः प्रदत्तः ।
MSME सेक्टर में कार्य करने वाले उद्यमियों व कारीगरों हेतु हम 'मुख्यमंत्री सूक्ष्म उद्यमी दुर्घटना बीमा योजना' लागू कर रहे हैं… pic.twitter.com/mWStraswg1
— Yogi Adityanath (@myogiadityanath) February 22, 2023