
अन्तर्राष्ट्रीयमुद्राकोषात् ऋणस्य लाभं प्राप्तुं पाकिस्तानसर्वकारेण नीतिव्याजदरेण द्वौ प्रतिशतौ वर्धयितुं सुझावं स्वीकृतम् अस्ति। वर्तमानव्याजदरः १७ प्रतिशतं भवति । एतस्याः शर्तस्य स्वीकारेन पाकिस्तानस्य कृते अन्तर्राष्ट्रीयमुद्राकोषात् एकबिलियनं दशलक्षं डॉलरं ऋणं ग्रहीतुं शक्यते।
अन्तर्राष्ट्रीयमुद्राकोषस्य सार्धषड् अरब डॉलरस्य ऋणस्य भागः अस्ति एतत् ऋणम् । पाकिस्तानस्य एतेन निर्णयेन व्याजदरः १९ प्रतिशतं यावत् वर्धते। अक्टोबर्-१९९६ तमे वर्षे एषः दरः १९.५ प्रतिशतं आसीत् ।