
उत्तराखण्ड-संस्कृत-अकादमीद्वारा आयोजितं अखिलभारतीयं संस्कृतकविसम्मेलनम्
कुलदीपमैन्दोला। उत्तराखण्ड। शुक्रवासरे हरिद्वारे विदुषां काव्यविनोदेन संस्कृतं छन्दयुते छन्दविमुक्ते च कवीनां कविता गुञ्जायमाना अभवत्। उत्तराखण्ड-संस्कृत-अकादमीद्वारा स्वकीयसभागारे अखिलभारतीयं संस्कृतकविसम्मेलनम् समायोजितं यत्र हरिद्वारस्य च अन्यस्माद् स्थानात् संस्कृतविद्वांश: समुपस्थिता: अभवन् । समूहविंशति: भारतसम्मेलनस्य वसुधैव कुम्बकम् इत्यनेन सह समाच्छादिते कार्यक्रमफलके मञ्चे भारतसर्वकारस्यपूर्वशिक्षामन्त्री डा.रमेशपोखरियालनिश्शंक: विदुषां सभामलंकृतवान् ।
निश्शंकवर्येण कथितमत्र यत् इयम् उत्तराखण्डभूमि: संस्कृतभूमि: वर्तते । अत्रैव शास्त्राणां वेदोपनिषदां भूमिरपि चास्ति । संस्कृतस्य विकासाय शासनस्तरे प्रयासा: जायमाना: सन्ति । अस्य प्रदेशस्य द्वितीया भाषा संस्कृतम् एव अस्ति । कवीनां अत्र समुल्लास: संस्कृतसाहित्यस्य कृते अद्भुत: संगम: वर्तते ।
उत्तराखण्डसंस्कृत-अकादम्या: सचिव: श्रीशिवप्रसादखालीवर्य: सर्वेषां धन्यवादं च आभारं प्रकटितवान् । संचालनं शोधाधिकारिणा हरीशगुरुरानीवर्येण कृतं ।
अखिलभारतीयसंस्कृतकविसम्मेलने उत्तराखण्डस्य पूर्वमुख्यमंत्री, भारतसर्वकारस्य पूर्वशिक्षामंत्री तथा हरिद्वारस्य संसदसदस्य: डॉ. रमेशपोखरियालनिशंक:, संस्कृतशिक्षानिदेशक: डॉ. शिवप्रसादखाली, डॉ. निरंजनमिश्र:, प्रख्यातसंस्कृतसाहित्यकार:, डॉ. राजेन्द्रत्रिपाठी, “रसराज:” , श्रीमती विमला मिश्रा, डॉ. सर्वेशतिवारी, डॉ. प्रकाशचंद्रपंत:, डॉ. गंगवारवर्य:, डॉ. हरीशगुरुरानी, एवं प्रो आर्यवर्य: उपस्थिता: आसन् ।