
नव देहली। ‘गजवा-ए-हिन्द’-प्रकरणस्य अन्वेषणं कुर्वती राष्ट्रिय अनुसन्धान-संस्थायाः (एनआईए) गुरुवासरे अर्थात् अद्य महाराष्ट्र-गुजरात मध्यप्रदेशयोः सप्तस्थानेषु छापा मारितवती। भवद्भ्यः वदामः यत् ‘गजवा-ए-हिन्द’ माध्यमेन युवानः कट्टरता-मार्गे आनेतुं सामाजिक माध्यम-मञ्चेषु प्रेरिताः भवन्ति। पश्चात् आतङ्कवादीकार्यसम्बद्धं कार्यं कर्तुं तेषां कृते क्रियते।
एनआईए अद्य महाराष्ट्रस्य नागपुर गुजरात नगरयोः त्रीणि-त्रिस्थानानि, मध्यप्रदेशस्य ग्वालियर नगरे च एकं स्थानं च छापाम् अकरोत्।
एनआईए अभियानेषु राष्ट्रविरोधीक्रियाकलापैः संलग्नानाम् आवासीयपरिसरस्य अन्यस्थानानां च अन्वेषणं कृतम्। एनआईए इत्यनेन गतवर्षस्य जुलैमासस्य २२ दिनाङ्के बिहारस्य फुलवारीशरीफपुलिसस्थाने गजवा-ए-हिन्द-प्रकरणस्य पञ्जीकरणं कृतम् आसीत् । फुलवारीशरीफ-प्रकरणस्य अन्वेषणकाले एनआइए-संस्थायाः कथनम् आसीत् यत्, “आरोपी मार्गुब अहमद-दानिशः कट्टरपंथी व्यक्तिः इति ज्ञातम् सः स्वस्य व्हाट्सएप् समूहस्य “गजवा-ए-हिन्द” इत्यस्य माध्यमेन अनेकैः विदेशीयसंस्थाभिः सह सम्पर्कं कृतवान् ।
एनआईए इत्यनेन उक्तं आसीत् यत्, “अस्मिन् समूहे काश्मीरे घटमानानां आतङ्कवादीनां घटनानां महिमा युवानां मध्ये भवति स्म। अन्यः समूहः हिंसाद्वारा भारतविजयस्य प्रचारं कुर्वन् आसीत्।
अस्मिन् वर्षे जनवरीमासे ६ दिनाङ्के एनआइए इत्यनेन अस्मिन् प्रकरणे बिहारस्य विशेषे एनआईए न्यायालये एकस्य अभियुक्तस्य विरुद्धं आरोपपत्रं दाखिलम् आसीत् ।