
-डॉ.दिनेश: चौबे
उज्जयिनी। भगवान श्रीकृष्णस्य विषये वयं जानीमः एव यत् ते षोडश कलाः परिपूर्णसंपूर्णावतारा: आसन् । अत्र कलाशब्दस्य तात्पर्य: मनुष्येषु विद्यमानस्य सम्भावनानां अभीव्यक्ते : संबंधविषये अस्ति । भगवान् श्रीकृष्ण: या: षोडश कलाः धारयन्ति स्म तासां कलानां संक्षिप्तपरिचय : अत्र क्रमेण प्रस्तूयते। एता: कला: मानवेषु न्यूनम् अथवा अधिकरूपेण दृश्यते।
१. श्रीसंपदाकला-
श्रीकलया संपन्न: व्यक्ति: धनाढ्य: भवति। तस्य पार्श्वे लक्ष्म्याः स्थायीवास: भवति ।अनया कलया संपन्नव्यक्ति: ऐश्वर्यपूर्णजीवनं यापयति। समस्तान मनोरथान च प्राप्नोति।
२. भूसंपदाकला –
येषु मानवेषु प्राशासनिकं क्षमता भवति एवञ्च वृहद भू-भागस्य आधिपत्यम् अस्ति ते भूकलया संपन्नजना: भवन्ति।
३. कीर्तिसंपदाकला –
कीर्तिकलया सम्पन्नव्यक्ते: नाम सम्पूर्णं विश्वे आदरेण जना: उच्चरन्ति। तस्मै जना: नमस्काराः कुर्वन्ति। सः समाजे परिवर्तनम् आनेतुं कार्यं करोति।
४. वाणीसम्मोहनकला –
वाण्यां सम्मोहनमपि एका कला वर्तते अस्यां कलायां निपुण: व्यक्ति: अतीवप्रभावं जनयति जना: तं श्रोतुं उत्सुकाः भवन्ति।
५. लीलाकला-
अस्याः कलाया: नाममस्ति लीलाकला अस्यां कलायां संपन्न: व्यक्ति: अतीव दर्शनीयं भवति। तस्य दर्शनमात्रेण एव आनन्दम् आयाति एवम्भूत: जन: जीवनम् ईश्वरस्य प्रसादरूपेण स्वीकरोति।
६. कांतिकला –
अस्यां कलायां सम्पन्न: व्यक्तिः जनान् आकर्षति यतोहि सः अत्यन्ताकर्षक: भवति।तस्य मुखे कान्ति: भवति अतः पुनः पुनः तं दृर्ष्टुं मन: भवति।
७. विद्याकला-
अस्याः कलायाः नाम विद्या वर्तते । अस्यां कलायां सम्पन्न: व्यक्ति: वेद -वेदाङ्ग सहैव युद्घकौशले संगीतकलायां राजनीतौ , कूटनीतौ च सिद्घहस्त: भवति।
८. विमलाकला –
यस्मिन् मनसि पाप:, लोभ: ग्लानित्यादया: भावा: न भवन्ति। आत्मवत् सर्वभूतेषु यः पश्यति सः अस्यां विमलाकलायां संपन्न: इति मनुते।
९. उत्कर्षिणिशक्तिकला –
अस्यां कलायां संपन्न: व्यक्तिः जनान् स्वनेतृत्वक्षमतया कर्म कर्तुं प्रेरयति तस्मिन् अपूर्व कौशलं दृष्टुं शक्यते सः समाजं रक्षति राष्ट्रं च परिवर्तितुं शक्नोति।
१०. नीर-क्षीरविवेककला –
अस्यां कलायां संपन्न: व्यक्ति: विवेकवान भवति। सः स्वविवेकेन जनानां मनसि निधाय तदनुसारेण कार्यं करोति। सः सद् असद् विवेचने दक्ष: भवति ।
११. कर्मण्यताकला –
अस्यां कलायां संपन्न: व्यक्ति: कर्मवान् तु भवति एव एवञ्च सः जनान् कर्म कर्तुं प्रेरयति तेषां जीवने परिवर्तनम् आनयति।
१२. योगशक्तिकला –
अस्यां कलायां संपन्न: व्यक्ति: मन: नियन्त्रितुं शक्नोति। सः मनसा आत्मन:अन्तरं दूरीकरोति।
१३. विनयकला –
अस्यां कलायां संपन्न: व्यक्ति: अतीव नम्र: भवति अहंकार: तं न स्पृशति । सः सर्वासु विद्यासु शास्त्रेषु च पारंगत: भूत्वापि विनयशील: भवति।
१४. सत्य-धारणाकला –
अस्यां कलायां संपन्न: व्यक्ति: सत्यवादी दृढव्रतः भवति सः सत्यं धारयति तस्मिन् सत्यस्य धारण क्षमता प्रबला भवति । सः कदापि सत्यस्य परित्याग: न करोति । धर्मरक्षार्थं सः कटुसत्यमपि वक्तुं शक्यते।
१५. आधिपत्यकला-
अस्यां कलायां संपन्न: व्यक्ति: जनान् स्वप्रभावेन अधीनं कर्तुं शक्यते। तस्मिन् शासनस्य कौशलं भवति सः कुत्रापि
स्वपराक्रमेण अधिपति भवितुं शक्यते।
१६. अनुग्रहक्षमताकला –
अस्यां कलायां संपन्न: व्यक्ति: लोककल्याणकर्ता भवति । सः प्रत्युपकारस्य भावनया लोकस्य मङ्गलाय कार्यं करोति।
धनार्जनाय मनोरञ्जनाय सौन्दर्यवर्धनाय कौशलविकासाय च एताः कलाः अतीतवत् अधुनापि चलन्ति काश्चन अप्रचलिताः जाताः काश्चन उपेक्षिताः काश्चन सर्वकारीयसंरक्षणं प्राप्ताः च सन्ति । नामभेदेन विविधग्रन्थेषु दृश्यन्ते । संख्याभेदेन अपि व्याख्याताः षोडश कलाः ब्राह्मणे उपनिषदि महाभारते अपि उल्लिखिताः सन्ति । अनेकेषु अर्थेषु कलाशब्दः दृश्यते ।
तद्यथा – क्रियाविशेषे, संख्याने, अवयवे , शक्तौ , सुखप्रदे मनोरञ्जनसाधने, जीविकासाधने , आकर्षककौशले च प्रायशः दृश्यते ।