
नवदेहली । इजरायल-हमास युद्धस्य मध्यं भारतसर्वकारेण पुनः गाजा-पट्टिकायां प्रभावितानां फिलिस्तीनी-नागरिकाणां कृते महती सहायता प्रेषिता। रविवासरे भारतीयवायुसेनायाः द्वितीयं सी-१७ विमानं नवीनदिल्लीतः ३२ टन सहायतासामग्रीम् आदाय मिस्रदेशस्य एल-अरिश् विमानस्थानकं प्रति प्रस्थितवान्।
इदानीं भारतस्य विदेशमन्त्रालयेन युद्धप्रभावित फिलिस्तीनी जनानां कृते मानवीयसहायतां दातुं प्रतिबद्धतां पुनः उक्तवती, भविष्ये अपि भारतं प्रभावितानां जनानां साहाय्यं करिष्यति इति च अवदत्। भारतस्य विदेशमन्त्री एस जयशङ्करः सोशल मीडिया प्लेटफॉर्म एक्स (X) इत्यत्र एतां सूचनां दत्तवान्।
सः लिखितवान् यत्, ‘वयं फिलिस्तीन: जनानां कृते मानवीयसहायतां निरन्तरं करिष्यामः ।’ भारतीयवायुसेनायाः द्वितीयं सी-१७ विमानं युद्धप्रभावितफिलिस्तीनीजनानाम् कृते ३२ टनराहतसामग्रीम् आदाय मिस्रदेशस्य एल-अरिशविमानस्थानकं प्रति प्रस्थितम्। अस्मिन् राहतसामग्रीयां आवश्यकानि जीवनरक्षकौषधानि, कम्बलानि, तंबूः, वस्त्राणि इत्यादीनि आवश्यकवस्तूनि सन्ति ।
We continue to deliver humanitarian assistance to the people of Palestine.
Second @IAF_MCC C17 aircraft carrying 32 tonnes of aid departs for the El-Arish Airport in Egypt. pic.twitter.com/bNJ2EOJPaW
— Dr. S. Jaishankar (@DrSJaishankar) November 19, 2023
उल्लेखनीयं यत् अस्मात् पूर्वं इजरायल्-हमास-योः युद्धस्य मध्ये पीएम नरेन्द्रमोदी फिलिस्तीनी राष्ट्रपतिः महमूदअब्बासेन सह भाषितवान् आसीत्, सः गाजानगरस्य अल अहली अस्पताले नागरिकानां मृत्योः विषये शोकं प्रकटितवान् पीएम मोदी वक्तव्ये उक्तवान् यत् वयं फिलिस्तीनीजनानाम् कृते मानवीयसाहाय्यं निरन्तरं प्रेषयिष्यामः। एतेन सह सः क्षेत्रे हिंसा, आतङ्कवादः, सुरक्षास्थितिः च क्षीणतां प्राप्नोति इति विषये चिन्ताम् अङ्गीकृतवान् ।
इजरायल-फिलिस्तीन प्रकरणे भारतस्य सिद्धान्तगतं स्थितिमपि पुनः उक्तवान् । पूर्वं विदेशमन्त्रालयस्य प्रवक्ता अरिन्दम् बागची इत्यनेन उक्तं यत् फिलिस्तीनविषये भारतस्य नीतिः दीर्घकालं यावत् एव अस्ति। भारतं सर्वदा संवादद्वारा स्वतन्त्रस्य सार्वभौमस्य च फिलिस्तीनस्य समर्थनम् अकरोत् । भारतम् अपि इजरायल् देशे शान्तिं इच्छति इति सः उक्तवान् आसीत् । तेषां जनानां मनोवृत्तिः पूर्ववत् एव ।