नव देहली। लास्जलो क्रास्नाहोरकाई महोदयः, हंगरीदेशीयः प्रख्यातः कृतिकारः, २०२५ तमस्य वर्षस्य साहित्यनोबेल पुरस्कारस्य प्राप्तकर्त्ता इति स्वीडिश् अकादेम्याः द्वारा घोषितम्।स्वीडिश् अकादेम्याः उच्यते क्रास्नाहोरकाईस्य रचनाः न केवलं गाढा प्रभावशालिनः दूरदर्शिनः च सन्ति, अपितु विनाशस्य, भयस्य च मध्यस्थलेऽपि कलायाः अद्भुतशक्तिं प्रकटयन्ति। सः मध्ययुरोपीयसाहित्यपरंपरायाः एकः मूर्धन्यः स्तम्भः अस्ति, यः फ्रांज् काफ्कायाः तथा थॉमस्बर्नहार्डस्य छायायामपि लेखनं कृतवान्।
तस्य प्रथम उपन्यासः ‘सैटानटैंगो’ नामकः १९८५ तममेव वर्षे प्रकाशितः यः हंगरीदेशस्य एकस्य ग्रामस्य अतीव क्लिष्टजीवनं च पात्राणां कथां विवृणोति, यत्र साम्यवादी शासनस्य पतनपूर्वं जनानां संघर्षः समाहितः।
स्वीडिश् अकादेम्याया: समितिः व्याख्यातवती क्रास्नाहोरकाईस्य ग्रन्थाः दर्शनस्य, सामाजिकसंकटानां च निडरं प्रतिपादनं कुर्वन्ति। तस्य लेखनी मानवतायाः, अराजक्यस्य, च आधुनिकसमाजस्य चुनौतीषु प्रतिबिम्बं यच्छति। प्रसिद्धाः तस्य रचनाः ‘सैटानटैंगो’ च ‘द मेलांकली ऑफ् रेसिस्टेन्स्’ च, येषां आधारः चलचित्राणि अपि जातानि, ये च विश्वसाहित्ये विशिष्टस्थानं धारयन्ति।
‘द मेलांकली ऑफ् रेसिस्टेन्स्’ एका लघुग्रामस्य क्लिष्टजीवनस्य अभिव्यञ्जनं करोति, यत् मानवस्वभावस्य दोषगुणयोः साक्षात्कारं कुर्यात्। ‘सैटानटैंगो’ चलचित्रः सप्तघण्टानां दीर्घः आलोचकदर्शकयोः च महती प्रशंसा प्राप्यते।
अस्मिन पुरस्कारे विजेतृभ्यः ११ मिलियन स्वीडिश् क्रोनाः (सन्निकृष्टं १०.३ करोडभारतीयरूप्यकाणि), सुवर्णपदकम्, प्रमाणपत्रञ्च प्रदास्यते। यदि द्वयोः अधिकयोः जनयोः पुरस्कारः स्यात्, तर्हि धनराशिः समानविभाज्यते। पुरस्कारसमारोहः १० दिसम्बर् दिनाङ्के स्टॉकहोम नगरे सम्पादितः भविष्यति।
स्वीडिश् अकादेम्यया विज्ञानस्य, रसायनशास्त्रस्य, चिकित्साशास्त्रस्य च क्षेत्रेषु पुरस्काराः उद्घोषिताः सन्ति, शेषाः श्रेणयः शीघ्रं प्रकाश्यन्ते। अयं गौरवशालीवृत्तान्तः साहित्यजगत् मध्ये कला-वैभवं पुनः प्रदर्शयति।
