भारतस्य अर्थव्यवस्था द्रुतगत्या वर्धिता , सर्वकारेण प्रकाशिताः अनुमाना:
नवदेहली । भारतं विश्वे द्रुतगत्या वर्धमाना अर्थव्यवस्था अस्ति । अस्या: द्रुतगतेः नवीनतममुदाहरणं भारतस्य त्रैमासिकसकलराष्ट्रीय उत्पादानां प्राप्त्यानां स्थिति: द्रष्टुम् शक्यते । गुरुवासरे सर्वकारेण प्रकाशिताः अनुमाना: बहु उत्तमाः सन्ति । तथा च दिसम्बरमासे देशस्य त्रैमासिकी अर्थव्यवस्था ८.४ प्रतिशतं वृद्धिदरेण वर्धिता अस्ति। २०२२ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अनन्तरं सर्वोत्तमवृद्धिरस्ति। सर्वप्रथमं वर्तमानवित्तीयवर्षस्य दिसम्बरमासस्य त्रैमासिकी सर्वकारेण प्रकाशितानां सकलराष्ट्रीयउत्पादानाम् (India Q3 GDP) विषये वदामः, ये भारतीय-अर्थव्यवस्थायाः द्रुतगतेः साक्ष्यं ददति । वर्षे प्रतिवर्षे ८.४ प्रतिशत दरः २०२२ तमस्य वर्षस्य द्वितीयां त्रैमासिकीं यावत् सर्वाधिकं प्रबला वृद्धिः अस्ति । विगतसितम्बरमासस्य त्रैमासिक्यां देशस्य सकलराष्ट्रीयउत्पादवृद्धिः ७.६ प्रतिशतं आसीत् । भारतीयार्थव्यवस्थायाः गतिविषये नवीनतमदत्तांशं दृष्ट्वा एन०एस०ओ० इत्यनेन द्वितीयपूर्वसूचनानुसारं २०२३-२४ वित्तवर्षस्य कृते देशस्य वृद्धिदरः ७.६ प्रतिशतं इति अनुमानितम्। विगतः २०२४ तमस्य वर्षस्य जनवरीमासे 7.3% प्रतिशतं इति अनुमानितमासीत् ।
यदि वयं सांख्यिकी-कार्यक्रम-कार्यन्वयन-मन्त्रालयेन फरवरी मासस्य २९ दिनाङ्के प्रकाशितान् अनुमानान् पश्यामः तर्हि विनिर्माणक्षेत्रे ११.६ प्रतिशतं वृद्धिः अभवत् । तत्रैव कृषिक्षेत्रस्य वृद्धिः ३.८ प्रतिशतं अभवत् ।
२०२३-२४ वित्तवर्षस्य तृतीयत्रिमासिकाया: अनुमाना: एस०बी०आई० अन्वेषणम् द्वारा विश्वबैङ्क-आईएमएफ इत्यस्मै कृतानां प्रक्षेपणानां अपेक्षया बहु अधिकाः सन्ति तथा च न केवलं देशे अपितु विदेशेषु अपि चर्चा क्रियते। एसबीआई रिसर्च इत्यनेन तृतीयत्रैमासिक्यां सकलराष्ट्रीयउत्पादः ६.७-६.९ प्रतिशतं यावत् भविष्यति इति अपेक्षा कृता अस्ति । तत्रैव भारतीयरिजर्वबैङ्केन भारतस्य अस्यां त्रैमासिक्यां सकलराष्ट्रीयउत्पादवृद्धिः ७ प्रतिशतं इति अनुमानिता आसीत् । एतदतिरिक्तं “रेटिंग् एजेन्सी” आई०सी०आर०ए० इत्यनेन दिसम्बरमासस्य त्रैमासिक्यां सकलराष्ट्रीयउत्पादवृद्धिः केवलं ६ प्रतिशतं इति अनुमानिता आसीत् । भारतीय अर्थव्यवस्थायाः द्रुतगत्या तुलने एते सर्वे पूर्वानुमानाः विवर्णाः अभवन् । IMF भारते विश्वासं करोति। त्रैमासिकीरूपेण तीव्रगत्या वर्धमानाया: भारतीय-अर्थव्यवस्थायाः प्राप्तानुमानानुसारेण विश्वबैङ्कः, IMF इत्यादीनां वैश्विकसङ्गठनानां भारते विश्वासः अधिकं वर्धितः अस्ति अन्तर्राष्ट्रीयमुद्राकोषः अर्थात् IMF इत्यनेन वित्तवर्षे 2024 कृते भारतस्य सकलराष्ट्रीयउत्पादवृद्धेः अनुमानं ६.७ प्रतिशतं यावत् वर्धितम्। यत्र तु तुलनायां विश्वस्य अन्येषां देशानां बृहत् अर्थव्यवस्थानां स्थितिः दुर्बलं दृश्यते। IMF फोरकास्ट इत्यस्य अनुसारं भारतस्य अर्थव्यवस्था चीन (4.6%), अमेरिका (2.1%), जापान (0.9%), फ्रान्स (1%), यूके (0.6%) इत्यादीनां प्रमुखानां अर्थव्यवस्थानां अपेक्षया उत्तमं प्रदर्शनं करिष्यति। विश्व सांख्यिकी इत्यत्र वित्तवर्षस्य 2023-24 इत्यस्य सकलराष्ट्रीयउत्पादानां पूर्वानुमानं पश्यन्तु:
भारतवर्ष: – 6.1%
चीनदेशः 4.4%
सऊदी अरब: 3.7%
पाकिस्तान: 3.6 %
कोलम्बिया 2.2%
जापान: 1.6%
कनाडा 1.5%
मेक्सिको 1.2%
अमेरिका 1.0%
इंग्लैंडदेश: 0.3 %