नव देहली। अद्य पटियालाजनपदस्य राजकीय-आयुर्वेदिकमहाविद्यालयस्य संस्कृतविभागे संस्कृतदिवसस्य उपलक्ष्ये कार्यक्रमः सञ्जात : । अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण संस्कृतभारत्याः प्रान्तसहमंत्री अजयकुमार-आर्य : एवञ्च मुख्यवक्तृरूपेण डॉ . ओमनदीप: राजकीय -कन्या -महाविद्यालयस्य संस्कृतविभागाध्यक्ष: आसीत् । कार्यक्रमस्य आरम्भः सरस्वतीवन्दनाद्वारा सञ्जात: । आगतानाम् अतिथीनां परिचयः डॉ० रीना तिवारी महोदया कारितवती । अजयकुमार-आर्येण उक्तं यत् संस्कृतमायुर्वेदस्य आत्मा अस्ति ।
संस्कृतेन विना आयुर्वेदस्य पद्धतिम् एवञ्च विधिमवगन्तुं न शक्यते । यतोहि आयुर्वेदस्य सर्वेपि मूलग्रन्थाः चरकसहिंता , सुश्रुतसहिंता इत्यादयः संस्कृते एव सन्ति । डॉ. ओमनदीपमहोदयेन संस्कृतस्य व्यवहारिक-उपयोगितायाः विषये उक्तं यत् यदि सामान्य छात्राः संस्कृतं पठिष्यन्ति चेत् संस्कृतं तेषां प्रतिदिनजीवने साहाय्यं करिष्यन्ति यथा हिन्दी-आदिभाषासु आगतानां गूढशब्दानाम् अर्थान् ते सम्यक्रुपेण अवगन्तुं शक्ष्यन्ति । पुनः आङ्ग्लभाषायामागतानां संस्कृतशब्दानाम् उत्पत्तिविषये अपि चर्चा कृता । अस्मिन् कार्यक्रमे सरस्वतीवन्दनां शुभमः , जानवी , कत्थकनृत्यं -तान्या , संस्कृतनाटकम् -सर्वजीतकौर : ,शबनमः , काजलः , मन्जु , अमित: , दीपकः । शिवतांड्वस्तोत्रं – सत्वीन्द्र: । गीतगानम् – किरण: , मनीषा , गगनः एते छात्रा: स्व स्व प्रस्तुतिं प्रस्तुतवन्तः । कार्यक्रमे संस्कृतभारतीद्वारा संस्कृतविज्ञानप्रदर्शिनी अपि आयोजितासीत् । अस्मिन् कार्यक्रमे ६० जनाः आसन् । डॉ. रीना आगतानां अतिथीनामेवञ्च विशेषतया संस्कृतभारतीपञ्जाबप्रान्तस्य आभारम् प्रकटितवती । कार्यक्रमस्य समापनं शान्तिमन्त्रेण अभवत् ।