नव देहली। कार्तिकमासः, वैदिकपञ्चाङ्गानुसार, अत्यन्तं पुण्यमयः मासः इति सनातनधर्मे प्रतिपाद्यते। अस्य मासस्य शुक्लपक्षस्य एकादशी तिथि यः दिनः “देवोत्थानएकादशी” इति प्रसिद्धः १ नवम्बर् २०२५, शनिवासरे सम्पद्यते। एषा एकादशी भगवतः विष्णोः योगनिद्रायाः समापनदिनं च चिनोति। अनेनैव दिने तुलसीमातुः सह भगवान् विष्णुः पूज्यते, श्रद्धालुभिः उपवासनम् अपि क्रीयते। द्वादश्यां तु तुलसीविवाहः नाम पर्व सम्पद्यते।
गङ्गास्नानस्य पावनफलम्
कार्तिकमासे गङ्गायाः तीरे ब्राह्ममुहूर्ते स्नानम् अतीव पुण्यदायकं मन्यते। शास्त्रेषु वर्णितं यत्, गङ्गास्नानेन सर्वपापक्षयः भवति, शुभफलप्राप्तिश्च सुनिश्चितम्। श्रद्धालवर्गः प्रतिदिनं गङ्गायाः जलमध्ये आचमनं कृत्वा, भगवन्तं विष्णुं प्रार्थयन्ति, दीपदानं कुर्वन्ति, यज्ञव्रतानि च आचरन्ति। यदि गङ्गातीरे स्नानं साध्यम् न भवेत्, तर्हि गङ्गाजलेन वा पवित्रजलेन स्नानम्, ततः सूर्याय अर्घदानम्, च एते कृत्यविशेषाः स्वर्गफलप्रदाः मन्यन्ते।
कार्तिकमासे कर्तव्यानि धार्मिककार्याणि
भगवतः विष्णोः तथा तुलसीमातुः पूजनम्
प्रतिदिनं गङ्गास्नानं अथवा गंगाजलस्नानं
सूर्यनारायणाय जलार्पणम्
दीपदानं, यज्ञव्रतानि, तुलसीसेवा च
धार्मिकग्रन्थपाठः, ध्यानं, सत्संगः च
विशेषतः स्त्रीणां कृते अपि अस्य मासस्य महदर्थत्वं अस्ति। स्त्रियः प्रतिदिनं (रविवासरं विना) तुलसीमातवे जलार्पणं कुर्वन्ति, सायं सन्ध्यायां तस्याः आरतीं च कुर्वन्ति। कार्तिकमासस्य वैशिष्ट्यम्, सनातनशास्त्रेषु निर्दिष्टम् यत् आषाढस्य शुक्लैकादश्यां भगवान् विष्णुः क्षीरसागरे योगनिद्रां प्राप्नोति।
कार्तिकशुक्लैकादश्यां तु तस्य जागरणं सम्पद्यते।
एवम्, देवोत्थानैकादशी शुभकार्याणां प्रारम्भदिवसः इति मन्यते।
चातुर्मासव्रते समाप्ते, विवाहादि शुभकृत्यानि कार्तिके आरभ्यन्ते।
एवंच, अस्मिन् मासे
धनतेरस्,
दीपावली,
गोवर्धनपूजा,
भ्रातृद्वितीया,
षष्ठीपूजा (छठ्) इत्यादीनि उत्सवविशेषाः अपि उल्लासेन मन्यन्ते।कार्तिकमासः केवलं मासविशेषः न, अपितु धार्मिकजीवनस्य जागरणकालः अस्ति। अस्य मासे कृतानि स्नान-दान-जप-पूजनादीनि कार्याणि मनुष्यस्य सकलपापविनाशं, दीर्घायुः, सौख्यम्, समृद्धिं च ददाति।अतः श्रद्धया सह कार्तिकमासस्य धार्मिकानुष्ठानानि आचर्यन्ताम्, पवित्रता-शान्ति-समृद्धीनां प्राप्तये।”
