भोपालम् । प्रधानमन्त्रि नरेन्द्रमोदी बुधवासरे १७ सितम्बरतिथौ स्वजन्मदिने मध्यप्रदेशस्य एकदिवसीय प्रवासाय आगच्छन्ति। प्रधानमन्त्रिणा धारजिलस्य भैंसोला–ग्रामे “स्वस्था नारी, सशक्तः परिवारः च पोषणम्” इत्यस्य अभियानस्य, “आदि सेवा पर्वस्य” च शुभारम्भः करिष्यते। तेन सह देशस्य प्रथमः “पीएम मित्र पार्क” इत्यस्य शिलान्यासः अपि करिष्यते। अस्मिन्नवसरे मध्यप्रदेशराज्यपालः मङ्गुभाई पटेलः, मुख्यमन्त्री डॉ. मोहन यादवः च उपस्थिता भविष्यतः।
https://x.com/DrMohanYadav51/status/1968144674386042975
एतत् अभियानं स्वास्थ्य परिवारकल्याण विभागेन, महिला बालविकास विभागेन च संयुक्ततया सञ्चालितः भविष्यति। अस्य उद्देश्यः महिलानां, किशोर्याणां, बालकानां च स्वास्थ्य–पोषण सेवां सुदृढीकर्तुं, तेषां जागरूकतां च वर्धयितुं। अस्मिन अभियानान्तर्गते स्वास्थ्यशिबिराणि, चिकित्सालयसेवाः, निवारक–संवर्धनात्मक–उपचारात्मक च उपायाः प्रदास्यन्ति। प्रधानमन्त्रिणा शिलान्यासे कृतः पीएम मित्र पार्कः प्रायः २१५८ एकरक्षेत्रे विकसितः भविष्यति। अत्र २० एमएलडी सामान्य अपद्रवशोधन केन्द्रम्, १० एमवीए सौरऊर्जा संयन्त्रः, जल विद्युत् आपूर्तिः, आधुनिक सडकाः, ८१ प्लग एण्ड प्ले इकाइयः च स्थापिताः।
श्रमिकानां महिला कर्मचारिणां च कृते आवास सुविधाः अपि भविष्यन्ति। अत्र निवेशरूपेण उद्योगैः २३,१४६ करोड़रूप्यकाणि प्रस्तावितानि, येन स्थानीयजनानाम् रोजगार सृजनं भविष्यति। प्रधानमन्त्रिणः “५एफ” दृष्टिकोनस्य अनुगुण्येन;कृषेः कापासः, तस्मात् सूत्रम्, तस्मात् वस्त्रम्, तस्मात् परिधानम्, ततः विदेश निर्यात- इति पूर्णा मूल्यशृङ्खला एकस्मिन्नेव स्थले पूर्णा भविष्यति। अस्मात् त्रीलक्षं जीविका सृज्यते। एषः पर्वः जनजातीय गौरवस्य राष्ट्रनिर्माणस्य च सङ्गमस्य प्रतीकः भविष्यति। अत्र स्वास्थ्य, शिक्षा, पोषण, कौशलविकासः, आजीविकासंवर्धनम्, स्वच्छता, जलसंरक्षणम्, पर्यावरणरक्षणं च विषयेषु विविधाः सेवाकार्यक्रमाः आयोजयिष्यन्ते। “Tribal Village Action Plan” तथा “Vision 2030” अपि विशेषतया प्राधान्येन निर्मीयते।
महिलास्व सहायता समूहाय प्रधानमन्त्रिणा एकः पौधः प्रदास्यते। १०,१६२ महिलाभिः “मातुः बगिया” इति आरभ्यते, यत्र पर्यावरण संरक्षणेन सह महिलानाम् आर्थिक सशक्तिकरणम् अपि साध्यते। प्रधानमन्त्री “प्रधानमन्त्रिसुरक्षित मातृत्व अभियाने” अन्तर्गतं “सुमन सखी चैटबॉटं” लोकार्पयिष्यन्ति। अस्मात् गर्भवत्यः ग्रामीणदूरप्रदेशस्थाः महिलाः समये यथार्थं स्वास्थ्यसूचनां सेवां च प्राप्स्यन्ति।
प्रधानमन्त्री सिकल सेल स्क्रीनिङ्ग परामर्शस्य एककोटितमं कार्डं वितरयिष्यन्ति। एषा उपलब्धिः सिकल सेल एनीमियायाः विरुद्धे राष्ट्रस्य सामूहिक युद्धस्य प्रतीकः इति मन्यते। प्रधानमन्त्री “प्रधानमन्त्री मातृ वन्दना योजना” अन्तर्गतं देशव्यापिन्यः पात्राः महिलाः एकस्मिन क्लिकेण स्वखातेभ्यः लाभराशिं प्राप्स्यन्ति। मध्यप्रदेशस्य प्रायः एकलक्षं मातरः भगिन्यः लाभं प्राप्स्यन्ति।
