नव देहली/संस्कृतवार्ता। बिहारराज्ये आगामी विधानसभाचुनावानां सन्दर्भे राजनैतिकपटलं तीव्रतरं जातम्। अद्य सदाकताश्रमस्थे कांग्रेसकार्यालये भारतीयजनतापक्षस्य कार्यकर्तृभिः कृतं आक्रमणं राजनैतिकतापमानं चरमसीमां प्राप्तम्। अनेन घटनया प्रेरितः सांसदः पप्पू यादवः उग्रं वक्तव्यं प्रदत्तवान् – एषः समयः यत्र कांग्रेसपक्षः स्वयं भाजपायाः राजनैतिकश्राद्धं करिष्यति।
स्वस्य सामाजिकमाध्यमेषु लिखन् सः आरोपयत् –
“मतचौरपक्षः एषः भाजपा, द्विगुणदण्डराज्यं स्थापयति। कांग्रेसपक्षस्य आश्रमे यः आक्रमणं कृतम्, तेन स्पष्टं दृश्यते यत्, भाजपा भयभीता अस्ति। इयं पक्षी विफलतायाः कगारपर्यन्तं प्राप्ता अस्ति।तस्य अनुयायिनः, “राहुलगान्धिनः बब्बरसिंहाः इव निर्भीकतया युध्यन्ति,” इति अपि वदति। एषः विवादः तदा आरब्धः, यदा कश्चन कांग्रेसपक्षीयः नेता प्रधानमन्त्री मोदी-मातुः विषये अमर्यादितया भाषितवान्। ततः परं भाजपायाः कार्यकर्तारः तस्य विरोधं कृत्वा आरोपपत्रं समर्पितवन्तः, पुलिसद्वारा च तस्य गिरफ्तारी कृता।
भाजपापक्षे अपि प्रतिवादः दत्तः “कांग्रेसपक्षः जनमानसस्य ध्यानं विक्षिप्य राजनैतिकलाभाय अशोभनं वाक्यं प्रयुङ्क्ते। तैः उक्तं यत्, “बिहारजनता एतादृशी विषवृष्टिं न सहिष्यते।राजनीतिज्ञाः च विशेषज्ञाः च पूर्वसूचनां ददाति “चुनावकालस्य समीपत्वेन, अयं आरोपप्रत्यारोपः, वक्तव्यानां उग्रता च अनिवार्यं।सुरक्षायाः दृष्त्या अपि, राजनैतिककार्यालयानां रक्षणाय सुरक्षा-विवस्था दृढीक्रियते।
एवं वर्तमानसमये, सम्पूर्णं बिहारराज्यं राजनैतिकरङ्गेण सम्पूर्णतया आवृतम् अस्ति। आगामी दिवसेषु एषा राजनैतिकगर्जना अधिकं सघनतां प्राप्स्यति।
