
भोपालः, 8 अप्रैलमासः।मुख्यमंत्रिणो डॉ. मोहन यादवस्य अध्यक्षत्वे मंगलवार-दिनाङ्के मन्त्रिपरिषदः उपवेशनं मन्त्रालये सम्पन्नम्। मन्त्रिपरिषद्द्वारा प्रदेशे निराश्रितगौवंशस्य समस्यायाः निराकरणार्थं पशुपालनं दुग्धव्यवसायं च अन्तर्गत्य मध्यप्रदेशराज्ये स्वावलम्बिगौशालानां स्थापना सम्बन्धिनी नीति: 2025 इत्यस्य अनुमोदनं कृतम्।
गौशालाभ्यः प्रत्येकं गवे 40 रूप्यकाणि प्रतिदिनं दातव्यानि इति निर्णयःगौशालानां स्थापने उत्साहवर्धनार्थं तथा मुख्यमंत्रिणा कृतघोषणायाः अनुक्रमेण गौशालाभ्यः पूर्वं 20 रूप्यकाणि प्रत्येकं गौवंशाय प्रतिदिनं यावत् प्रदत्तम्, तत् वृद्ध्वा 40 रूप्यकाणि प्रत्येकं गौवंशाय प्रतिदिनं दातव्यानि इति निर्णयः मन्त्रिपरिषद् द्वारा कृतः।
मुख्यमंत्रीपशुपालनविकासयोजनायाः डॉ. अम्बेडकरपशुपालनविकासयोजना इत्याख्यया नामपरिवर्तनस्य स्वीकृति:राज्ये पशुपालनदुग्धव्यवसायसम्बद्धेषु गतिविधिषु नूतनाजीविकावसरेषु वृद्ध्यै, उत्पादकत्ववृद्ध्यै, कृषकाणां आयवृद्ध्यै, सकलगृहोत्पादगणनायाः वृद्ध्यै, राष्ट्रस्य एतन्मध्ये योगदानवृद्ध्यै च मुख्यमंत्रिपशुपालनविकासयोजनायाः 2024-25 तथा 2025-26 वर्षयोः निरन्तरता स्थाप्य योजना डॉ. अम्बेडकरपशुपालनविकासयोजना इति नाम्ना स्थाप्यते इति निर्णयः।अनुमोदनुसार सहकारिताद्वारा पशुपालनक्रियाणां निमित्तं कृषकाणां कृते शून्यप्रतिशतः ब्याजेन कृषि-क्रेडिट-कार्ड प्रदेयाः। नस्लसुधाराय भ्रूणप्रत्यारोपणकार्यक्रमः, वन्ध्यापनिवारणशिविराणां च आयोजनं करिष्यते। मुख्यमंत्री डेयरी प्लस कार्यक्रम, चारा उत्पादन कार्यक्रम, प्रदेशस्य मूलगौवंशीयनस्लस्य, भारतीयस्य उन्नतनस्लस्य च दुधारुगवां कृते पुरस्कारकार्यक्रमः, मुख्यमंत्री दुधारुपशुप्रदायकायक्रमः, योजनासम्बद्धविज्ञापन-उन्मुखीकरणकार्यक्रमः च निरन्तरं प्रचलिष्यन्ते इत्यस्य अनुमोदनं प्राप्तम्।शिक्षायाः गुणवत्ता-वृद्धये सहमतीकरणस्य निर्णयःसमग्रशिक्षाअभियानान्तर्गतं भारतसर्वकारेण संबद्धा संस्था एडसिल् (इण्डिया) लिमिटेड् इत्यस्य माध्यमेन राज्ये शिक्षायाः गुणवत्ता-वृद्धये सहमति-पत्रं कर्तव्यमिति मन्त्रिपरिषद् द्वारा निर्णयः कृतः।उल्लेखनीयम् यत् केन्द्रशिक्षामन्त्रालयेण संबद्धा संस्था एडसिल् (इण्डिया) लिमिटेड् (भारतसर्वकारस्य मिनी रत्न श्रेणी-1) इत्येषा केन्द्रीयसार्वजनिकक्षेत्रसंस्था अस्ति। अस्याः संस्थायाः द्वारा म.प्र. राज्ये समग्रशिक्षाअभियानान्तर्गतं गुणवत्ता-सुधारः, LEP (कक्षा VI-XII) अन्तर्गतं विभिन्नकार्यकलापानां सञ्चालनं च करिष्यते। अस्मिन् पठने वृद्धिः, कार्यशालाः, अध्ययनपरिणामाधारितमूल्याङ्कनम्, राज्यबाह्यवैज्ञानिकदर्शनयात्राः, शिक्षकविकासः, सततव्यावसायिकविकासः, परिणामपरकशिक्षणनीतिषु सुधारः च सम्मिल्यते।मल्हारगढ (शिवना) दाबयुक्तसूक्ष्मसिञ्चनपरियोजनायाः अनुमोदनम्पार्वती-कालीसिंध-चम्बल् सम्पर्कपरियोजना अन्तर्गतं मंदसौरजिलस्य मल्हारगढ (शिवना) दाबयुक्तसूक्ष्मसिञ्चनपरियोजनायाः प्रशासनिकस्वीकृति: प्रदत्ता। अस्याः परियोजनायाः लागताराशिः 2932 कोटि 30 लक्ष रूप्यकाणि, सिञ्च्यप्रदेशः 60 सहस्रहेक्टेयर अस्ति। अनेन परियोजनायाः लाभग्राही मन्दसौरजिलस्य मल्हारगढ-तहसीलस्य 32 ग्रामाः, मन्दसौर-तहसीलस्य 115 ग्रामाः च भविष्यन्ति।विद्युत्संस्थाभ्यः कार्यशीलपूँज्याः ऋणसुविधायै शासकीयप्रत्याभूतेः स्वीकृतिःराज्यस्य विद्युत्संस्थाभ्यः कार्यशीलपूँज्याः ऋणं वा नगदसाख-सुविधायै शासकीयप्रत्याभूतिः प्रदातव्या इत्यस्य मन्त्रिपरिषद् द्वारा स्वीकृतिः दत्ता।लोकवित्तसम्बद्धपरियोजनासु परीक्षणम् प्रशासनिकानुमोदनञ्चलोकवित्तसम्बद्धानां योजनानां अन्तर्गतं आगतानां परियोजनानां परीक्षणं प्रशासनिकानुमोदनं च करणीयमिति प्रक्रिया मन्त्रिपरिषद् द्वारा अनुमोदिता। एतस्य निर्गमनार्थं वित्तविभागः अधिकृतः।चिकित्सामहाविद्यालयानां PPP मोड इत्यस्मिन् स्थापने संशोधितनिविदापत्रप्रारूपस्य कार्योत्तरानुमोदनम्राज्ये PPP मोड इत्यस्मिन् चिकित्सामहाविद्यालयानां स्थापना सम्बन्धिनी संशोधितनिविदापत्रप्रारूपस्य कार्योत्तरानुमोदनं मन्त्रिपरिषद् द्वारा कृतम्। निविदापत्रे आवश्यकपरिवर्तनं करणं, अन्येषां निराकरणं च कर्तुं मुख्यसचिवस्य अध्यक्षतायाम् PPP परियोजनानां कृते गठिता राज्यस्तरीयसशक्तसमितिः अधिकृता।