
नवदिल्ली, 05 अप्रैलमासःप्रधानमन्त्री नरेन्द्रमोदी श्रीलङ्कादेशस्य यात्रायाम् अस्ति । शनिवासरे प्रधानमन्त्रिणे नरेन्द्रमोदिने श्रीलङ्कायाः राष्ट्रपतिना अनुर-कुमार-दिसानायके इत्यनेन कोलम्बो-नगरे ‘मित्रविभूषण’ इति श्रीलङ्कायाः सर्वोच्चं नागरिकं सम्मानं प्रदत्तम्। अस्य सम्मानस्य अन्तर्गतं प्रदत्तं धर्मचक्रं द्वयोः राष्ट्रयोः संयुक्तं बौद्ध-सांस्कृतिक-वारसं सूचयति, येन उभयोः देशयोः सांस्कृतिक-परम्पराः आकारिता:। तण्डुलैः सुसज्जितः कलशः समृद्धेः नवीनीकरणस्य च प्रतीकः अस्ति।
एते अवसरस्य सन्दर्भे प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् एतत् सम्मानं प्राप्य ते अत्यन्तं गौरवम् अनुभवन्ति। ते अवदन् यत् एषः सम्मानः केवलं तेषां नास्ति, अपि तु १४० कोटिसंख्यकानां भारतीयानाम् अपि सम्मानः अस्ति। श्रीलङ्काया: भारतस्य च सम्बन्धानां विषये ते अवदन् यत् श्रीलङ्का केवलं भारतस्य पार्श्ववर्ती देशः न, अपि तु परम्परागतं विश्वसनीयं च मित्रम् अस्ति। भारतदेशः सर्वासु आपत्तिकालीन परिस्थितिषु श्रीलङ्कायाः सह सदैव स्थितः आसीत्, भविष्ये अपि तथा एव स्थास्यति इति ते अवदन्।
एते समये श्रीलङ्कायाः राष्ट्रपतिना दिसानायके इत्यनेन प्रधानमन्त्रिणं मोदीं विषये उक्तं यत् ते आवश्यककाले श्रीलङ्कायाः सहायता कृतवन्तः, यथा च तेन देशेन सह अखण्डं ऐक्यम् अपि प्रदर्शितम्। तेन एव अस्मिन् अवसरि प्रधानमन्त्रिणं मोदीं प्रति एषा प्रतिज्ञा अपि प्रदत्ता यत् श्रीलङ्कादेशः स्वदेशीयं क्षेत्रं कदापि तेन प्रकारेण उपयोगं न करिष्यति, येन भारतस्य सुरक्षा-हितानि प्रतिकूलतया प्रभावितानि स्युः।
—-