- उत्तराञ्चलप्रान्तस्य आवासीयवर्गार्थम् अभवत् कार्यकर्तृणां संगोष्ठी।
वार्ताहर:-कुलदीपमैन्दोला।
कोटद्वारं। कण्वनगरीकोटद्वारे 05 जून 2024 तः 13 जून 2024 पर्यन्तं सरस्वतीविद्यामन्दिरे, जानकीनगरे, संस्कृतभारती-उत्तरांचलस्य आवासीयः संस्कृतप्रबोधनकक्षा समारप्स्यते । सोमवासरे तदर्थम् अस्मिन् स्थले एव संस्कृतशिबिरस्य आरम्भार्थं संगोष्ठी आयोजिता। यस्मिन् संस्कृतभारत्याः क्षेत्रसङ्गठनमन्त्रिणा श्रीदेवेन्द्रपाण्ड्यावर्येण उक्तं यत् संस्कृतभारत्याः समये समये शिबिराणां आयोजनं भवति एव कण्वनगर्यां तु संस्कृतस्य महत्वं पुराकालात् विद्यते । संस्कृतभारत्या: प्रान्तमन्त्री गिरीशतिवारीमहोदयः अवदत् यत् संस्कृतशिबिरे भारतस्य सर्वेभ्यः जनाः भागं गृह्णन्ति। अस्मिन् संस्कृतशिबिरे प्रबुद्धाः जनाः, भाषाशिक्षकाः, गृहिण्य:, संस्कृतभाषाप्रेमिणः च भागं गृहीस्यन्ति।
प्रान्तसहमन्त्री डॉ. हरीशगुरुरानीवर्येण उक्तं यत्, सर्वासु भाषासु जननी इति मन्यमाना संस्कृतभाषा विदेशेषु अपि पाठ्यते, परन्तु अस्माकं स्वजनाः संस्कृतभाषायाः उपयोगं न कुर्वन्ति। यदि जनाः संस्कृतं वक्तुं आरभन्ते तर्हि मूल्यानि स्वयमेव स्वगृहेषु आगमिष्यन्ति इति । प्रत्येक: जन: संस्कृतेन सम्भाषणं कुर्यात् एतदर्थं वर्गस्य आयोजनं क्रियते ।
। जिलासंयोजकः पंकजध्यानी शिबिरविषये रूपरेखां प्रस्तुतवान् ।
पौडीविभागशिक्षणप्रमुखः कुलदीपमैन्दोला शिबिरे बालकबालिकानां पृथक् आवासव्यवस्था, च उत्तमशिक्षणम् अस्ति इति उक्तवान्। सिद्धार्थनैथानीद्वारा प्रस्तुतं यत् कण्वनगरीकोटद्वारस्य सर्वेषां निजीविद्यालयानाम् अध्यापकानाम् छात्राणां च भागः अवश्यं भवितव्यः यस्मिन् शिविरस्य संचालनार्थं किञ्चित् उत्तरदायित्वं दत्तम् यस्मिन् कार्यालयप्रमुखकविः रोशनबलूनी तथा सहायक: डा.विश्वक्सेन:, वर्गसंयोजक: सतीशदेवरानी, डा. नवीनजशोला , श्रीकान्त:, कपिलध्यानी, किशोरबिडालिया, आवासीयव्यवस्थायां आचार्य: इतेन्द्रनैथानी, शारीरिकशिक्षक:, राकेशकण्डवाल: आदय: मुख्यदायित्वेषु नियुक्ता: सन्ति।