नवदेहली:। फरीदाबादनगरे: ३२ वर्षीयः काङ्ग्रेसनेता कुणालभदानः गोलिकाभिः हतः। अभियुक्तः स्विफ्टकारयानेन पलायितवान् । कुणालस्य: अग्रजः ज्योतिन्द्र भदानः प्रकरणं कृतवान् अस्ति।
ज्योतिन्द्र भदानः कथयति यत् एषा घटना परस्परप्रतिद्वन्द्वात् कृता अस्ति। सम्प्रति पुलिसेन: प्रकरणस्य पञ्जीकरणं: कृत्वा कार्यवाही आरब्धा अस्ति।
सूचनानुसारं कुणालः स्वपरिवारेण सह नवादा कोह इति ग्रामे निवसति स्म । कुणालः रात्रौ विलम्बेन मित्रेण सह मस्जिदचौकस्य समीपे स्थितः आसीत्। एतस्मिन् काले विजयः, बिलुः, अन्ये द्वे जनाः च आगतवन्तः, कुणालेन: सह विवादः एतावत् वर्धितः यत् अभियुक्तः कुणालस्य: वक्षःस्थले: गोलिकाप्रहारं: कृत्वा ततः पलायितवान् मृतस्य कुणालस्य: अग्रजः ज्योतिन्द्रभदानः कथयति यत् अभियुक्तैः सह तस्य प्रतिद्वन्द्वः निरन्तरं वर्तते।