पटियाला:। पंजाबस्य पटियालानगरे मंगलवासरे संस्कृतभारत्या: सम्पर्काभियानान्तर्गते नगरस्य नेकै: संस्कृतसेविभि: सह मेलनं जातम् ।ध्यातव्यमस्ति यत् दिनाङ्क: 1 अगस्तत: 7 अगस्तपर्यन्तं संस्कृतभारत्या: सम्पर्काभियानं प्रचलदस्ति । यत्र नगरस्य प्रबुद्धै: प्रभावशालीभि: जनै: सह मेलनं करणीयमस्ति येन ते संस्कृतं प्रति अनुकूला: भवेयु: ।
अस्मिन्नैवक्रमे राज्यसर्वकारस्य पटियालास्थस्य भाषाविभागस्य निदेशकेन श्रीमता जसवन्त-सिंह-जफर-महोदयेन सह मेलनमभवत् । मेलनेस्मिन् निदेशकेन उक्तं यत् वयं अस्माकमयं विभागश्च सर्वदा संस्कृतप्रसारकार्याय कार्यं करिष्याम: । संस्कृतभारत्या: अध्यक्षवर्य: वीरेन्द्रकुमार: निदेशकं नवपदं ग्रहणाय शुभकामना: अयच्छत् ।
अस्मिन् एव क्रमे गुरुनानाकमुक्तविश्वविद्यालयस्थस्य परशुरामपीठस्य आचार्येण परमिन्दरशर्मणा सह, तत्र समुपस्थिताभि: शोधार्थिणीभि: श्रीमत्या दीपादेव्या, जसपालकौरभगिन्या सह अपि मेलनं जातम् ।
पुन: पंजाबकेसरीपटियालासम्पादकेन सह श्रीमता राजेशपंजोला अनेन सह अपि संस्कृतभारत्या: कार्यकर्तृणां सम्पर्कं जातम् ।
अद्यतनस्य सम्पर्ककार्यक्रमे अध्यक्षवर्येण डॉ. वीरेन्द्रकुमारेण सह , प्रान्तसहमन्त्री अजयकुमार: आर्य:, पटियाला सम्पर्कप्रमुख: डॉ. रवीदत्तकौशिक:, पटियाला-विभाग-सहसंयोजक: डॉ. ओमनदीप-आदय: अपि समुपस्थिता: आसन् ।
(वार्ताहर:-कुलदीपमैन्दोला)