कोटद्वारं। जनपदस्तरीयशरदकालीनयोगप्रतियोगिता राजकीय-इण्टर-कालेज-कोटद्वारे सुसम्पन्ना
चतुर्दशजनपदशरदकालीनक्रीडाप्रतियोगिता२०२४तमेवर्षेमुख्यशिक्षाधिकारीपौडीगढ़वालस्यअध्यक्षतायांएवं जनपलशिक्षाधिकारीपौडीगढ़वालस्य उपाध्यक्षताया च खण्डशिक्षाधिकारीदुगड्डापौडीगढ़वालस्य संयोजकत्वे मंगलवासरे रा.इ.का.कोटद्वारे योगप्रतियोगितानाम् आयोजनं संजातं । कार्यक्रमस्य स्थलसंयोजक: प्रधानाचार्य: मोहनसिंहरावत: एवं रमाकान्तकुकरेती , राकेशकण्डवाल: , तथा च योगशिक्षका: दीपप्रज्वालनं च गायत्रीमंत्रोच्चारणं विधाय कार्यक्रमस्य शुभारम्भं कृतवन्त: ।
अस्मिन् अवसरे विभिन्नविकासखण्डेभ्यः छात्राः योगविषये सुन्दरं प्रस्तुतिम् अयच्छन्, यस्मिन् सार्थककण्डवाल: आद्विक् तथा तेजस्वशाह: संस्कृतिः च उत्तमप्रस्तुतिं दत्तवन्तः। सहैव रा.इ.का.झण्डीचौडद्वारा एवं च रा.इ.का.काण्डाखालद्वारा संगीतसहितं योगप्रस्तुति: प्रदत्ता।
मुख्यातिथिरूपेण कार्यक्रमस्य मार्गदर्शनं कुर्वन् श्री मोहनसिंहरावतः अवदत् यत् योगः अस्माकं जीवनस्य अभिन्नः अङ्ग: अस्ति, अतः अस्माभिः स्वस्थजीवनस्य कृते योगः स्वीक्रियताम्। अतिथिरूपेण उपस्थितः रमाकान्तः कुकरेती अवदत् यत् योगमाध्यमेन हनुमान् अपि सूर्यं प्राप्तवान् । योग: एव अस्मान् पूर्णां ऊर्जां प्रददाति तथा च योगकार्यक्रमे
शशिभूषण: अमोली छात्राणां मनोबलं वर्धयन् उक्तवान् यत् भारतं योगगुरुः अस्ति इति वयं सर्वे गर्विताः स्मः।
योगप्रतियोगितायां दुगड्डाविकासखण्डे दुगड्डात: बालकवर्गे १४ आयुवर्गे प्रथमः, जयहरीखालः बालिकासमूहे प्रथमः, १७-आयुवर्गे पोखडाविकासखण्डे च बालकसमूहः द्वितीयः, यमकेश्वरत: बालिकावर्ग: च द्वितीय: । आयुवर्गे-१९ इत्यत्रापि बालकवर्गे दुगड्डात: प्रथमः बालिकानां वर्ग: च जयहरीखालत: प्रथमः अभवत् बालिकावर्ग: । सम्पूर्णयोगप्रतियोगितानाम् संयोजनं राकेशकण्डवाल: एवं संचालनं कुलदीपमैन्दोला कृतवन्तौ । अवसरेस्मिन् श्री सुरेशसिंह:, श्री संजीवमोहन:, रजनी अग्रवाल:, सोनमरावत:, रश्मिगुप्ता, महेन्द्रसिंह:, मनीषा जदली, प्रीति:, आदय: उपस्थिता: आसन्।
वार्ताहर:- कुलदीपमैन्दोला।