पौडीजनपदे। उत्तराखण्डसंस्कृत-अकादमी सम्पूर्णे राज्ये द्विदिवसीयसंस्कृतछात्रप्रतियोगितानां आयोजनं कृतवती, यस्मिन् गतबुधवासरे पौडीगढ़वालस्य जिलास्तरीयसंस्कृतछात्रप्रतियोगितायां सरस्वतीशिशुविद्यामन्दिरस्य जानकीनगरे कण्वनगरीकोटद्वारे प्रथमदिने कनिष्ठवर्गप्रतियोगितानां आयोजनं संजातं। प्रतियोगिताया: उद्घाटने कोटद्वारनगरस्य प्रसिद्धसमाजसेवी श्रीमती रंजना रावतवर्या, संस्कृतसहायकनिदेशक: मनोजकुमारसेमल्टी, वरिष्ठनागरिकमञ्चस्य उपाध्यक्ष: श्रीमहेन्द्र-अग्रवाल:, प्रधानाध्यापक: प्रदीपनौटियाल:, प्रधानाचार्य: मनोजकुमारकुकरेती, जनपदसंयोजक: रोशनगौड:, जनपदसहसंयोजक डॉ. रमाकान्तकुकरेती संयुक्तरूपेण दीपप्रज्ज्वालनेन शुभारम्भं कृतवन्त: ।
उद्घाटनसम्बोधने जिल्लासंयोजकः रोशनगौडः अवदत् यत् सम्पूर्णे राज्ये संस्कृतभाषायाः प्रचारार्थं तथा च छात्राणां मध्ये संस्कृतविषये रुचिं जनयितुं अकादमीद्वारा एषः कार्यक्रमः आयोजितः, संस्कृतम् अस्माकं निधि: अस्ति, अस्माकं प्राचीनभाषा च अस्ति, विश्वस्य सर्वासां भाषाणां जननी अस्ति, अतः अनया भाषया सह अस्माकं नित्यसम्बन्धः अस्ति ।
स्वभाषणे सम्बोधयन्ती श्रीमतीरञ्जनारावतवर्यया उक्तं यत् एतादृशाः स्पर्धाः संस्कृतस्य प्रचारार्थं अस्माकं सहायतां करिष्यन्ति छात्राः एतादृशैः कार्यक्रमैः एव संस्कृतभाषणस्य अभ्यासं कर्तुं शक्नुवन्ति यतोहि एतत् अस्माकं भारतीयसभ्यतायाः संस्कृते: च मूलं विद्यते।
संस्कृतसमूहनाटकं, समूहगानं, समूहनृत्यं, वादविवाद:, आशुभाषणं श्लोकोच्चारणं षड्विधप्रतियोगितासु कार्यक्रमानां प्रत्येकस्य कार्यक्रमस्य ३० विद्यालयाः भागं गृहीत्वा १२ निर्णायकानाम् अवलोकनेन स्वस्वस्थानं प्राप्तवन्तः। यस्मिन् कनिष्ठवर्गे राजकीयबालिका-इ.का. कण्वघाटी प्रथमं स्थानं, ज.इ.का. कमलपुरं द्वितीयं स्थानं च रा.इ.का. लैन्सडौन् तृतीयं स्थानं प्राप्तवान् ।
प्रतियोगितामाध्यमेन संस्कृतं , तेन वसुधैवकुटुम्बकं प्रति प्रेरणा- “विधायक: महन्तदिलीपरावत:”
सरस्वतीशिशुविद्यामन्दिरजानकीनगरे द्वितीयदिने च वरिष्ठवर्गप्रतियोगिता: आयोजिता: अभवन्। दिवसेत्र उद्घाटनकार्यक्रमे लैंसडौनविधायक: महंतदिलीपरावत: प्रतिभागं कृतवान् । मुख्यातिथिरूपेण सः अवदत् यत् देवभूमि- उत्तराखण्डे संस्कृतस्य परम्परा अतीव प्राचीना अस्ति तथा च अद्यत्वे अपि एषा संस्कृतिं प्रति गच्छति, एताभि: स्पर्धाभिः माध्यमेन संस्कार: भवति। सः अवदत् यत् संस्कृतम् एतादृशी भाषा अस्ति या वसुधैव कुटुम्बकं प्रति प्रेरयति तथा च जगतः सत्यस्य साक्षात्कारं कारयति।
पार्षद् नीरुबालाखन्तवाल:, ओमप्रकाशगौड़:,
पार्षद् ज्योतिसिंह:, प्रधानाचार्य: श्री लखपतराजखुगशाल:, प्रधानाचार्य: मनोजकुमारकुकरेती, प्रदीपनौटियाल:, यशवेदी, नमनभटनागर:, गजेन्द्रभाटिया एवं वरिष्ठनागरिकमंचस्य उपाध्यक्ष: श्री महेन्द्र-अग्रवाल:, रोशनगौड: डॉ. रमाकांत कुकरेती सर्वे सर्वेभ्यः स्थानं प्राप्तुं प्रोत्साहितवन्तः, पुरस्कारं च वितरितवन्तः।
कनिष्ठवर्गे संस्कृतनाटके संस्कृतविद्यालयभुवनेश्वरी प्रथमं, रा.इ.का. सेन्धिखाल: द्वितीयं, तथा च इ.का. कमलपुरसंगलाकोटी तृतीयस्थानं प्राप्तवान् । संस्कृतसमूहनृत्ये संस्कृतविद्यालयः रीठाखालचैधारः प्रथमस्थानं प्राप्तवान्, आर्मी-पब्लिक-स्कूल्-लैन्सडौन् द्वितीयस्थानं प्राप्तवान् तथा चरा.इ.का.सेन्धिखाल: स्थानं प्राप्तवान् । संस्कृतवादविवादे संस्कृतविद्यालयभुवनेश्वरी प्रथमस्थानं, रा.इ.का. किमगडी पोखडा द्वितीयं, तथा च डी.ए.वी. पब्लिक्-स्कूल-बलभद्रपुरकोटद्वारं तृतीयं स्थानं प्राप्तवान्। संस्कृत-आशुभाषणे संस्कृतविद्यालयभुवनेश्वरी प्रथमं, द्वितीयं रा.इ.का. यमकेश्वर:, संस्कृतविद्यालयचैधार: च तृतीयं स्थानं प्राप्तवान्। श्लोकोच्चारणे संस्कृतविद्यालयः भुवनेश्वरी प्रथमः द्वितीयं रा.इ.का.गडिगांव्, तथा च आर्मी-पब्लिक-स्कूल् -लैन्स्डाउन् तृतीयं स्थानं प्राप्तवान् ।
संस्कृतछात्रप्रतियोगितायाः वरिष्ठवर्गे केन्द्रीयसंस्कृतविद्यालय: रघुनाथकीर्तिपरिसरः संस्कृतनाटके प्रथमस्थानं प्राप्तवान् तथा च रा.इ.का.कमलपुरं द्वितीयं तथा च इण्टर-कॉलेज-काण्डाखाललंगूर: तृतीयस्थानं प्राप्तवान्। समूहगाने केन्द्रीयसंस्कृतविश्वविद्यालयः देवप्रयागः प्रथमं, रा.इ.का.कमलपुरसंगलाकोटी च द्वितीयं, ज्वाल्पासंस्कृतविद्यालयः च तृतीयस्थानं प्राप्तवान् । समूहनृत्ये केन्द्रीयसंस्कृतविश्वविद्यालयः देवप्रयागः प्रथमं
रा.इ.का.कमलपुरसंगलाकोटी द्वितीयस्थानं एवं च
रा.बा.इ.का. तृतीयस्थानं प्राप्तवन्त:। वादविवादे केन्द्रीयसंस्कृतविश्वविद्यालयः प्रथमस्थानं, संस्कृतविश्वविद्यालयभुवनेश्वरी द्वितीयस्थानं, इ.खा.काण्डाखाललङ्गुरं च तृतीयस्थानं प्राप्तवान् । आशुभाषणे संस्कृतविद्यालयभुवनेश्वरी प्रथमस्थानं, सेण्ट् -जोसेफ्-कान्वेण्ट्स्कूल् द्वितीयस्थानं, केन्द्रीयसंस्कृतविश्वविद्यालयदेवप्रयाग: तृतीयस्थानं प्राप्तवान्। हेमवतीनंदनगढ़वालविश्वविद्यालय: श्लोकोच्चारणे प्रथमस्थानन प्राप्तवान् एवं रा.स्नातकोत्तरमहाविद्यालयः कोटद्वारं द्वितीयस्थानं प्राप्तवान्, ज्वालपादेवीसंस्कृतविद्यालयः तृतीयस्थानं प्राप्तवान्। सर्वे राज्यस्तरे प्रतिभागं करिष्यन्ति।
(वार्ताहर: – कुलदीपमैन्दोला)