नव देहली। राष्ट्रीयस्वयंसेवकसंघस्य कार्यं शतं वर्षाणि सम्पूर्णानि भवन्ति। अस्य शताब्दीयात्रायामनेकाः जनाः सहयोगिनः सहभाजिनश्च आसन्। एषा यात्रा परिश्रममयी किञ्चिद् संकटपरिप्लुता च आसीत्, परन्तु सामान्यजनानां समर्थनं तस्या: सुखकरं पक्षं बभूव। अद्य शताब्दिवर्षे स्मरामः चेत्, तदा बहवः प्रसङ्गाः, बहवः च व्यक्तयः मनसि आगच्छन्ति, येषां कृते एषा यात्रा सफलाभूत्, ये च स्वयमेव सर्वस्वं समर्पितवन्तः।
प्रारम्भकाले ते युवा-कार्यकर्तारः योधावत् देशप्रेम्णा ओतप्रोता: सन्तः संघकार्ये राष्ट्रसेवाव्रतग्राहिणः भूत्वा सर्वत्र प्रवृत्ता आसन्। अप्पाजी-जोशी इव गृहस्थकार्यकर्तारः, अथवा दादाराव-परमार्थ, बालासाहब-देवरस, भाऊराव-देवरस, यादवराव-जोशी, एकनाथः-रणडे इत्यादयः प्रचारकस्वरूपेण, सर्वे अपि डॉ. हेडगेवार-महाभागस्य समीपे सम्प्राप्त्य संघकार्यं राष्ट्रसेवा इति जीवनव्रतत्वेन स्वजीवनं यापितवन्तः।
संघकार्यं समाजस्य समर्थनात् निरन्तरं प्रववृते। सामान्यजनानां भावनानुरूपत्वात् शनैः शनैः तस्य कार्यस्य स्वीकार्यता समाजे वर्धिता। स्वामीविवेकानन्देन विदेशे एकदा पृष्टं यत्, “भवतः देशे अधिकांशजनाः अनपठिताः, अंग्रेजी न जानन्ति, कथं भवतः विचाराः तेषां समीपे गमिष्यन्ति ?” इति। तदा स्वामीजी जगाद – “यथा चीटिकाः शर्करायाः गन्धं ज्ञातुं न अंग्रेजी-अध्ययनं कुर्वन्ति, तथैव मम भारतजनाः स्वस्य आध्यात्मिक-ज्ञानात् यत्रापि सात्त्विकं कार्यं प्रवर्तते तत्र तत्क्षणं गच्छन्ति, तदेव चोपगच्छन्ति। तस्मात् मम वचनं ते अवश्यम् अवगमिष्यन्ति।” इति। एषः वचनः सत्यं सिद्धम्। एवं संघस्य सात्त्विककार्यं यद्यपि शनैः शनैः, तथापि समाजे सामान्यजनानां स्वीकृतिं समर्थनं च प्राप्तवत्।
आद्यकाले एव स्वयंसेवकानां परिवारैः संघकार्यकर्तृभ्यः आशीर्वादः आश्रयश्च लब्धः। स्वयंसेवकपरिवाराः एव संघकार्यमण्डलस्य केन्द्रभूताः। मातृभगिनीनां सहयोगेनैव संघकार्यम् आपूर्णताम् अगच्छत्। दत्तोपन्तठेंगडी, यशवन्तरावः केलकरः, बालासाहेबः देशपाण्डे, एकनाथः-रणडे, दीनदयालः उपाध्यायः, दादासाहेबः आपटे च संघप्रेरणया समाजजीवनस्य विविधक्षेत्रेषु नूतनान् संगठनान् संस्थापयन्। एते सर्वे संगठनाः अद्यापि व्यापकविस्तारेण तेषु क्षेत्रेषु सकारात्मकपरिवर्तनं वहन्तः सक्रियाः भवन्ति।
महिलामध्ये राष्ट्रकार्याय राष्ट्रसेविका समितेः माध्यमेन मौसीजी केलकरः, प्रमिलाताई मेडे इत्याद्याः मातृतुल्याः व्यक्तयः अपि अस्य यात्रायाः अत्यन्तं महत्वपूर्णं योगदानं दत्तवन्त्यः।
कालक्रमेण संघेन राष्ट्रहिताय बहवः विषयाः उद्भाविताः। तेषु समाजे विभिन्नलोकानां समर्थनं प्राप्तं, यत्र विरोधिभावं वहन्तः अपि कतिपयः जनाः सम्मिलिताः आसन्। राष्ट्रैकात्मता, सुरक्षा, सामाजिक सौहार्द, लोकतन्त्रस्य धर्मसंस्कृतेः च रक्षणे असंख्याः स्वयंसेवकाः दारुणकष्टान् सहन्तः शतशः बलिदानानि च दत्तवन्तः।एवं संघस्य यात्रायां समाजस्य संबलं सर्वदा सन्निहितं जातम्।
आपत्काले, स्वातन्त्र्यानन्तरं प्रतिबन्धसमये, आपत्कालकाले च समाजस्य सामान्यजनाः, प्रतिष्ठितव्यक्तयः अपि संघकार्यम् उन्नीय समर्थनं दत्तवन्तः। एतत्कारणात् एव बहु बाधासु अपि संघकार्यं निरन्तरं अग्रे प्रवर्तते स्म।
शताब्दिवर्षे संघस्य स्वयंसेवकाः राष्ट्रसेवायाम् समाजस्य सहयोगसहभागितायै विशेषप्रयत्नं करिष्यन्ति। नगरादारभ्य ग्रामान्तपर्यन्तं सर्वेषु वर्गेषु सम्पर्कं करिष्यन्ति। सज्जनशक्तेः समन्वितप्रयत्नैः राष्ट्रस्य सर्वाङ्गीणविकासयात्रा सुगमा सफलाश्च भविष्यति।
(लेखकः राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः अस्ति)
