नव देहली। मुंबई नगरे सम्पन्नस्य २६/११ आतङ्काक्रमणस्य सन्दर्भे पूर्वगृहमन्त्री पी. चिदम्बरं नामकः वरिष्ठः काङ्ग्रेस्-नेता एकं महत्त्वपूर्णं उद्घाटनं कृतवान् अस्ति, यत् सम्पूर्णं राष्ट्रं च राजनैतिकं क्षेत्रं च पुनः चकितम् अकरोत्। तेन उक्तं यत् भारतं तदा अमेरिकादेशस्य दवाबेन पाकिस्तान-विरुद्धं सैन्य-कार्यम् अकरोत् न।
चिदम्बरस्य वचनम् – मनसि प्रतिशोधाग्निः आसीत्, किन्तु विश्वं समागत्य उक्तवती – ‘युद्धं मा कुरु’
वृत्तचक्राय दत्ते साक्षात्कारम् मध्ये चिदम्बरः अवदत्, २००८ तमे वर्षे सम्पन्ने आतङ्क-प्रसङ्गे अहम् प्रतिघातस्य पक्षे आसम्। परन्तु तदा अमेरिकायाः विदेश-मन्त्री कोंडोलिज़ा राइस भारतं आगता, प्रधानमन्त्री डॉ. मनमोहनसिंहं च मम च साक्षात् मिलित्वा सैन्य-प्रतिक्रिया न कर्तव्या इति निवेदितवती। मम हृदये तदा केवलं प्रतिशोधः आसीत्, किन्तु राष्ट्रं संयमं दर्शितवद्।
काङ्ग्रेस् दलान्तर्गतं विरोध-स्वरः राशिद् अल्वी महोदयस्य प्रश्नाः
काङ्ग्रेस् नेता राशिद् अल्वी महोदयः तीव्रं विरोधं प्रकट्य जिज्ञासते, यदि तदा चिदम्बरः अमेरिकस्य दवाबेन कर्म अकरोत्, तर्हि तेन त्यागपत्रं किमर्थं न दत्तम्? स्वीयं मतं तेन यथाकालं कथं न प्रकाशितम्? एतादृशं वक्तव्यं केवलं प्रतिद्वन्द्वी दलाय लाभदायकं भविष्यति। यः गृहदीपः स एवाग्निं ददाति – एषा स्थितिः एतस्य वक्तव्यस्य।
भारतीय जनता पार्टीया प्रहारः – दुर्बला आसीत् काङ्ग्रेस् सरकार
भा.ज.पा. नेता रविशंकरप्रसादः आरोपं कृतवान्,यदा निरपराधाः भारतीयाः आतङ्केन हता आसन्, तदा काङ्ग्रेस् सरकार मौनं धारयामास। चिदम्बरः स्वयम् स्वीकरोति यत् तं रोदितम्। एषा कथं सरकार आसीत्? राहुलगान्धि च सोनियागान्धि च एष्यां विषये किं वदन्ति?
षोडशवर्षेभ्यः परं किमर्थं स्मृतिः?
लोकः जिज्ञासते, चिदम्बराय किमर्थं एषा घटना १६ वर्षेभ्यः अनन्तरं एव स्मृतिः आगता?
आत्मविश्लेषणं वा नूतना राजनैतिक-रणनीतिः वा?
किमेतत् पूर्वस्य शासनस्य विदेशनीतिम् प्रति प्रश्नं चोदितवती?
सर्वातिविषयः – तस्मिन् समये भारतं सैन्य-प्रतिक्रिया कर्तव्यम् आसीत् वा?
नवप्रश्नानां आविर्भावः – सुरक्षा वा सामरिकः संयमः?
एषः चिदम्बरस्य उद्घाटनम् २६/११ इत्यस्य पाटस्य पुनः उद्घाटनं कृतम्। जनमानसस्य चेतना अपि पुनः जागृता। राष्ट्रं पृच्छति, यदा राष्ट्रस्य सुरक्षा संकटे आसीत्, तदा किं भारतम् अन्यदेशीय-चापस्य अधः झुकितम्?अद्ययदि तथैव प्रसङ्गः आगच्छेत्, किं वर्तमान-सत्ता अपि संयमं दर्शयेत्, अथवा प्रतिघातं करोतु?राष्ट्ररक्षा एव परमं कर्तव्यं न तु चुनावीय-लाभः, न च कूटनीतिक-संतुलनम्।
