
नव देहली । ब्राजीलस्य दक्षिणे रियो ग्राण्डे दो सुल् राज्ये अत्यधिकवृष्ट्या ३७ जनाः मृताः, ७४ जनाः अदृश्याः सन्ति । अद्यपर्यन्तं विनाशात्मकेन जलप्लावनेन नगराणि विध्वंसितानि सन्ति। विगत ८० वर्षेषु अत्यन्तं विनाशकात्मकेन जलप्रलयेन २३ सहस्राधिकाः जनाः स्वगृहं त्यक्तुं प्रवृत्ताः सन्ति । गतवर्षे जुलै, सेप्टेम्बर्, नवम्बरमासेषु यत् जलप्लावनम् अभवत् तस्मिन् आहत्य ७५ जनाः मृताः ।
वर्तमानजलप्रलयः एकवर्षे चतुर्थः एतादृशी प्राकृतिकापदा अस्ति । विगत १५० वर्षाणाम् अभिलेखानुसारं केषुचित् नगरेषु जलस्तरः सर्वोच्चस्तरं प्राप्तवान् । गुरुवासरे बेन्टो गोन्काल्वेस्-कोटिपोरा-योः मध्ये स्थितस्य जलविद्युत्संस्थानस्य जलबन्धः आंशिकरूपेण पतितः ।