
नवदिल्ली, 7 अप्रैलमासः।अद्य विश्वस्वास्थ्यदिनम् अस्ति। अस्मिन् अवसरे भारतसर्वकारस्य स्वास्थ्यमन्त्रिणा श्री-जगदप्रकाश-नड्डा-महाभागेन जनानां प्रति शुभाशयाः प्रेषिताः। सोमवासरे सः एक्स् इत्यस्मिन् सामाजिक-माध्यमे स्वसन्देशे अवदत् यत् अयं दिवसः अस्मान् स्वस्वास्थ्यस्य प्राथमिकतां स्मारयति च, आरोग्यपूर्णजीवनपद्धेः अंगीकारस्य आवश्यकता अपि प्रदर्शयति।
प्रधानमन्त्रिणः श्री-नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे केन्द्रसर्वकारेण सर्वेषां कृते सुलभा, सुलभमूल्या, गुणवत्तायुक्ता च स्वास्थ्यसेवा यथासम्भवम् उपलभ्यते इति कृते अनेकाः योजनाः आरब्धाः सन्ति। नड्डा-महाभागः अवदत् यत् प्राचीनप्रथाः च आधुनिकचिकित्साविज्ञानम् च इत्युभययोः माध्यमेन भारतस्य स्वास्थ्यसम्बन्धिनी गम्भीरा दृष्टिः जगति स्वास्थ्यसमाधाननिर्माणे सहायिनी जाता अस्ति।
ते उक्तवन्तः यत् अस्माकं स्वास्थ्यसेवायाः मूलाधारभूताः चिकित्सकाः, परिचारिकाः अग्रिमपङ्क्तिस्थ-स्वास्थ्यकर्मिणश्च—एतेषां कृते कृतज्ञता प्रकटयितव्या ।
किं कारणम् अस्य विश्वस्वास्थ्यदिनस्य आयोजनम्? प्रतिवर्षं सप्तमे अप्रील्-मासस्य दिनाङ्के सम्पूर्णे विश्वे विश्वस्वास्थ्यदिनः आयोज्यते। अस्य दिनस्य उद्देश्यः आरोग्यसम्बन्धिन्याः जागरूकतायाः प्रसारणं, स्वास्थ्यसेवायाः महत्त्वस्य अवगमनं च अस्ति।
अद्यतनकाले जीवनपद्धतेः कारणात् रोगाः, मानसिक-तनावः च शीघ्रं वर्धमाना दृश्यन्ते। अतः अस्य दिनस्य महत्त्वं विशेषतया वर्धते। अस्य दिवसस्य मुख्यः अभिप्रायः जनानां स्वास्थ्यबोधजागरणम् अस्ति।
वैश्विकस्तरे अस्य दिनस्य माध्यमेन स्वास्थ्यसम्बन्धिनिषु समस्यासु सरकाराणाम् संस्थानानां च ध्यानं आकर्ष्यते। एषः दिवसः जनसामान्यस्य जीवनं स्वस्थं, समुन्नतं च कर्तुं एकः महत्त्वपूर्णः प्रयासः इति मन्यते।