सैन साल्वाडोर। यूरोपदेशद्वये अमेरिकनमहाद्वीपे च प्रबलः भूकम्पः अनुभूयते । अमेरिकनमहाद्वीपे एलसाल्वाडोरदेशे बुधवासरे अपराह्णे ६.१ तीव्रतायां भूकम्पः अभवत् ।
अमेरिकीभूवैज्ञानिकसर्वक्षणस्य प्रतिवेदने एषा सूचना दत्ता अस्ति । परन्तु अद्यावधि प्राणहानिः सम्पत्तिक्षयस्य वा वार्ता न प्राप्ता। साल्वाडोरदेशस्य राष्ट्रपतिः नैब बुकेले इत्यनेन सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र लिखितं यत् ला लिबर्टाड् इति पश्चिमप्रदेशस्य तटतः ६० किलोमीटर् दूरे भूकम्पेन एलसाल्वाडोरदेशस्य अधिकांशः भागः कम्पितः।
अस्य भूकम्पस्य अनन्तरं द्वौ अपि कम्पौ अनुभूतौ, यस्य परिमाणं ४.१, ४.५ च आसीत् । समीपस्थे ग्वाटेमालादेशे अपि भूकम्पाः अनुभूताः । बुकेले इत्यनेन साझाकृतानां समाचारानुसारं भूकम्पस्य अनन्तरं सुनामी-प्रकोपस्य खतरा नासीत् ।
ग्रीसदेशस्य क्रेट्द्वीपे ५.२ तीव्रतायां भूकम्पः आगतवान्
तथैव यूरोपीयमहाद्वीपे ग्रीसदेशे अपि एकः बृहत् भूकम्पः अनुभूतः । दक्षिणग्रीसदेशे बुधवासरे ५.२ तीव्रतायां भूकम्पः अभवत् । अनेन जनानां मध्ये आतङ्कः प्रसृतः । परन्तु कस्यापि चोटस्य हानिस्य वा विषये तत्कालं सूचना नास्ति । अधिकारिणः एतां सूचनां दत्तवन्तः। एथेन्स् भूगतिकीसंस्थायाः कथनमस्ति यत् स्थानीयसमये सायं ७:२९ वादने क्रेट्-गवडोस्-द्वीपयोः मध्ये समुद्रान्तर्गतभूकम्पः अभवत् । अस्य गभीरता ११.६ किलोमीटर् आसीत् । अग्निशामकविभागेन उक्तं यत् भवनेषु कस्यापि चोटस्य क्षतिस्य वा प्रारम्भिकानि सूचनानि न प्राप्तानि।