मञ्चं समागत्य प्रतिभाशालिन: संस्कृतेन वदन्ति तदस्माकं संस्कृति: संस्कार: एव सम्मानं – ऋतुभूषणखण्डूरीविधानसभाध्यक्षा”
“डिस्कवर_उत्तराखण्ड 24 न्यूज” इत्यस्य मुख्यसम्पादक: श्री अम्बेशपन्तवर्य: इमं विशेषावसरं सृजितवान् । तेषां संकल्पेन परिश्रमेण उत्तराखण्डे नवोन्मेषशालिन: प्रतिभावन्त: जना: गौरवमयीकार्ये सतत् संलग्ना: सन्ति । वास्तविकरूपेण श्रीपन्तवर्य: नवसृजने आधुनिके सत्यान्वेषक: विद्यते । उत्तराखणडगौरवरत्नसम्मानस्य अयं प्रकल्प: तेषाम् उत्तराखण्डस्य प्रतिभाशालिनाम् बहुपूर्वसंकल्पितश्रमस्य परिणाम: सम्मानरूपेण विद्यते।
देहरादूनं। “डिस्कवर उत्तराखण्ड 24 न्यूज”इत्यस्य राज्यस्तरे उत्तराखण्डगौरवरत्नसम्मानस्य कार्यक्रम: संस्कृतिविभागप्रेक्षागृहदेहरादूने प्रारभत् । यत्र सम्पूर्णराज्यस्य नवप्रतिभाशालिन: शिक्षका: सामाजिका:, राजनैतिका:, ग्रामप्रमुखा:, प्राध्यापका:, विविधक्षेत्राणां योग्यमेधाविनश्च विविधविषयेषु कौशलसम्पन्ना: छात्रा: समाहूता: आसन् । संस्कृतसेवाक्षेत्रे य: संस्कृतप्रचारप्रसारकार्यं च सामाजिकजनानां कृते संस्कृतसम्भाषणं लेखनं च कारयति स: राजकीयवरिष्ठमाध्यमिकविद्यालयकोटद्वारस्य संस्कृतशिक्षक: कुलदीपमैन्दोला उत्तराखण्डविधानसभाध्यक्षाद्वारा उत्तराखण्डगौरवरत्नसम्मानेन सम्मानितोभवत् । इत: पूर्वमपि श्रीमैन्दोला विश्वविद्यालयै: विद्यालयै: उत्तराखण्डसंस्कृताकादम्या च संस्कृतशिक्षा-उत्तराखण्डद्वारा च विभिन्नसंस्थाभि: सम्मानित: वर्तते ।
अवसरेस्मिन् श्रीमती-ऋतुभूषणखण्डूरीद्वारा कथितं यत् हिन्दीक्षेत्रे आंग्लक्षेत्रे च संस्कृतक्षेत्रे त्रिविधक्षेत्रे अयं पुरस्कार: प्रदीयते इति अस्माकम् उत्तराखण्डस्य गौरवं । सावदत् मञ्चं समागत्य प्रतिभाशालिन: संस्कृतेन वदन्ति तदस्माकं संस्कृति: संस्कार: सम्मानस्य वर्तते। तया शिक्षकाणां प्राचार्याणां प्राध्यापकानां, सामाजिकजनानां, ग्रामप्रमुखानां छात्राणां च विविधविषयेषु क्षेत्रेषु समुपलब्धीनां समागतानां कृते उत्तराखण्डगौरवरत्नसम्मानेन सम्मानं कृतं । “डिस्कवर_उत्तराखण्ड 24 न्यूज” इत्यस्य मुख्यसम्पादक: श्री अम्बेशपन्तवर्य: इमं विशेषावसरं सृजितवान् । तेषां संकल्पेन परिश्रमेण उत्तराखण्डे नवोन्मेषशालिन: प्रतिभावान् जना: गौरवमयीकार्ये सतत् संलग्ना: सन्ति । वास्तविकरूपेण।
उत्तराखणडगौरवरत्नसम्मानस्य अयं प्रकल्प: तेषाम् उत्तराखण्डस्य प्रतिभाशालिनाम् बहुपूर्वसंकल्पितश्रमस्य परिणाम: सम्मानरूपेण विद्यते। श्रीपन्तवर्य: नवसृजने आधुनिके सत्यान्वेषक: विद्यते परिणामत: अधुना उत्तराखण्डगौरवरत्नसम्मानेन सम्मानं संजायते ।