नवदेहली । उत्तरप्रदेशे गतदिनम् उच्चकोट्याः नामांकन-दिनं वर्तते। कांग्रेसनेत्रा राहुल गान्धी उत्तरप्रदेशस्य उच्चकोट्याः रायबरेली-निर्वाचन क्षेत्रात् स्वीयं नामांकनं प्रपूरितवान्। नामांकनात् प्राक् राहुल-गान्धिना बृहद्-प्रथप्रदर्शनं विहितम्। अत्रावसरे वरिष्ठ-कांग्रेस नेत्री सोनिया गान्धी, दलाध्यक्षः मल्लिकार्जुन खड्गे, महासचिवा: प्रियंकागान्धीवाड्रा, अशोक गहलोतः इत्येतान् समेत्य स्रहस्त्रश: दलकार्यकर्तारः अपि अस्मिन् पथप्रदर्शने भागं स्वीकृतवन्तः। रायबरेलीतः भाजपाप्रत्याशी दिनेशप्रतापसिंहः सहैव अमेठीत: कांग्रेस दलस्य प्रत्याशी किशोरीलालशर्मा चापि अद्य स्वनामांकनं प्रस्तावितवन्तौ।
राज्ये तृणमूल कांग्रेस दलस्य एकेनैव प्रत्याक्षिना ललितेशपति त्रिपाठिना अद्य भदोही आसन-तः नामांकनं प्रस्तुतम्। अपरत्र च समाजवादी दलस्य कैसरगंज- आसनात् भगतराममिश्रेण, फतेहपुरत: नरेशउत्तमपटेलेन प्रत्याशित्वं घोषितम्, ध्येयमस्ति यत्- भाजपादलेन ह्य: कैसरगंज- आसनात् बृजभूषणसिंहस्य पुत्रस्य करणभूषणसिहंस्य प्रत्याशित्वं घोषितम् आसीत्। अथ च दक्षिणदिल्ली लोकसभाक्षेत्रतः भाजपादलस्य प्रत्याशी रामवीरसिंहबिधूडी नैजं नामाङ्कनं प्रस्तुतवान्। नामाङ्कनात् पूर्वं बिधूडीवर्येण लाडोसरायत: साकेतपर्यन्तं पथप्रदर्शनम् अपि आचरितम्, अस्मिन् अवसरे उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी, दिल्ली भाजपाध्यक्षः वीरेन्द्र सचदेवा, अन्ये च नेतारः उपातिष्ठन्त।